SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ५२ 'श्री हीरसुन्दर' महाकाव्यम् हीसुं० कदाचिदिभ्यः 'कलधौतभूधरे चिखेल सार्द्धं परमाणुमध्यया । "मृगाङ्कचूडामणिरद्विचक्रिण' स्तनूजयेवा'द्भुतभूतिभासुरः ॥६४॥ हील० कदा० । इभ्यः कलधौतं रूप्यं तस्य वा श्वेतत्वेन तत्तुल्ये गिरौ परमाणुवन्मध्यमुदरं यस्यास्तादृश्या तया समं चिखेल, खेलति स्म । यथा चन्द्रचूडः अद्रीशस्य पुत्र्या समं रूप्याचले खेलति । किंभूतः स इभ्यः ? । अद्भुतया भूत्या- सम्पदा भस्मना वा भासुरः ||६४॥ हील० विनोदमेवं सृजतोरहर्निशं तयोः स्मराज्ञैकवशंवदात्मनोः । इति दम्पतीक्रीडा ॥ (१) क्रीडार्थं रजतशैले कैलाशे च । ( २ ) रमते स्म । ( ३ ) परमाणुरिवोदरं यस्याः । कृशोदर्याः । " अध्यापयामः परमाणुमध्या" इति नैषधे । ( ४ ) ईश्वरः । " मृगाङ्कचूडामणिवर्जनाज्जित" मित्यपि नैषधे । (५) हिमाचलस्य पुत्र्या पार्वत्या । ( ६ ) आश्चर्यकारिणी भूतिः - लक्ष्मीर्भस्म च तया भासुरो दीप्यमानः ॥ ६४ ॥ हील० दिनानि दोगुन्दकदेवयोरिव प्रमोदभाजोरतिचक्रमुः क्रमात् ॥६५॥← विनो० । अनिशं क्रीडां कुर्वतोष्पु (: पुनः स्मरस्य आज्ञाया वशंवद आत्मा ययोस्तादृशयोः स्वयोर्नाथीकुंराव्यवहारिणोर्दिनानि दोगुन्दकदेवयोः इव अतिचक्रमुरतिक्रामन्ति स्म । किंभूतयोः ? | प्रमोदभाजिनोः ॥६५॥ हीसुं० कदाचिदम्भोरुहिणीव निद्रया सुखं प्रसुप्ता प्रहरेऽन्तिमे निशः । "तदङ्गना'स्वप्नसरोऽवगाहिनं न्यभालयज्ज' म्भनिशुम्भकुम्भिनम् ॥६५॥ ( १ ) पद्मिनी । ( २ ) शयाना । ( ३ ) रात्रेश्वरमे यामे । ( ४ ) कुंरासाहप्रिया नाथी । ( ५ ) स्वप्न एव सरोऽवगाहते आश्रयतीत्येवंशीलम् । ( ६ ) ऐरावणम् ॥६५॥ कदा० । कस्मिन्नपि समये सा पद्मिनी रात्रौ यथा स्वपिति तथा सुप्ता सती निशाचतुर्थे यामे तस्या नाथ्याः स्वप्न एव सरस्तमवगाहते इत्येवंशीलं जम्भस्य निशुम्भनं हिंसनं यस्मात्स इन्द्रस्तस्य हस्तिनं पश्यति स्म ॥६६॥ हीसुं० श्रियेव निर्जित्य समग्रदिग्गजान्धृतैर्जयाङ्गैश्चमरैर्विराजितम् । प्रभुं धराणामिव धात्वधित्यकां स्वमूर्ध्नि सिन्दूररुचिं च बिभ्रतम् ॥६६॥ ( १ ) जयसूचकैः । ( २ ) हिमाचलम् । (३) गैरिकमयोर्ध्वभूमीम् । ( ४ ) कुम्भस्थले ॥६६॥ हील० श्रिये० । चतुर्भिः काव्यैर्गजं निशिनष्टि । किंभूतं गजम् ? । शोभया सर्व दिग्गजान्विजित्य धृतैर्जयसूचकैः शोभितम् । पुनष्कि ( : किं ) कुर्वन्तम् ? । सिन्दूरकान्ति धारयन्तम् । यथा धराणां प्रभुर्हिमाद्रिगैरिकस्योद्धर्वभूमीं धत्ते ॥ ६७॥ * एतदन्तर्गत: पाठो हीसुंप्रतौ नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy