________________
द्वितीयः सर्गः
५१
नाथीकुंराख्ययोः । (४) अज्ञभ्रमरचकोरबालौ (ला: ) । (५) मकरन्दपीयूषयोः । (६) पातुमिच्छया ॥६०॥
हील० स्मिता० । जललीलासमये मकरन्दाणा (ना) ममृतानां च पातुमिच्छया । अचतुराः सारङ्गाणां भृङ्गाणां चकोराणां च । “सारङ्गा हरिणे शैले कुञ्जरे चातके खगे । शबले चिञ्चरीके चे" त्यनेकार्थः । पोतास्तयोर्मुखे प्रति सेवन्ते स्म । इवोत्प्रेक्ष्यते । विकसितं यत्कमलं उदयन् य इन्दुस्तयोर्भ्रमादिव ॥*६०॥
हीसुं० 'प्रफुल्लकङ्केल्लिरसालमल्लिकाकदम्बजम्बूनिकुरम्बचुम्बिते ।
`अलीव साकं सुदृशा स निष्कुटे कदापि रेमे "श्रितसूनशीलनः ॥ ६१॥ (१) विनिद्राशोकः - सहकारो- विचकिलनामा पुष्पजातिविशेषः - नीप :- जम्बूः प्रसिद्धः श्यामफलः निकरकलिते । ( २ ) भृङ्गः । ( ३ ) नाथीदेव्या । ( ४ ) गृहारामे । (५) आश्रितः पुष्पावचयो येन सः ॥ ६१ ॥
हील० प्रफु० । प्रफुल्ला कुसुमिता ये किङ्केल्लयोऽशोकाः, सहकाराः, मल्लिका विचिकिला:, कदम्बाः, जम्ब्वः, श्यामफलास्तेषां वृन्देन चुम्बिते कलिते । एतादृशे निष्कुटे गृहारामे स्वस्त्रिया सह कस्मिन्नपि स रेमे क्रीडति स्म । यथाली भ्रमरः सीमारामे रमते । किंभूतः स अली च ? 1 श्रितं सूनानां कुसुमानां सेवनं येन सः ||६१||
हीसुं० रसालसालस्य' तले विलासिना 'प्रणीय वीणां क्वणनानुवादिनीम् । अगीयत 'श्रोत्रसुधारसोपमं क्वचिन्मृगाक्ष्या सह किंनरेन्द्रवत् ॥६२॥
(१) आम्रतरोरधस्तात् । (२) कुंरामहेभ्येन । (३) कृत्वा । (४) स्वशब्दमनुगच्छतीत्येवंशीला, आत्मध्वनितुल्यां विधाय । (५) कर्णयोरमृतरसनिषेकतुल्यम् । (६) नाथीदेव्या सार्द्धम् ||६२॥ हील० रसा० । क्वणनं निजध्वनिमनुकरोतीत्येवंशीलां वीणां सज्जीकृत्य अमुना तया सममगीयत गीतम्
॥६२॥
हीसुं० कदापि मन्दार इव स्मितद्रुमे विलासदोलाम वलम्ब्य लीलया । न्यखेलि तेनोपवने 'मृगीदृशा 'समं स्वदेव्या 'सदेव नन्दने ॥६३॥
(१) मन्दारनाम्नि सुरतरौ । ( २ ) क्रीडाप्रेङ्खोलनाम् । ( ३ ) आश्रित्य । ( ४ ) स्त्रिया । ( ५ ) सार्द्धम् । ( ६ ) देवेन । (७) मेरुवने स्वर्गवने वा ॥ ६३ ॥
हील० कदा० । मन्दारः कल्पवृक्षस्तत्सदृशे स्मिततरौ लीलया विलासार्थं प्रेङ्खोलनमाश्रित्य तेन स्वस्त्रिया समं न्यखेलि । उपवने क्रीडितम् । यथा सदा देवेन स्वदेव्या समं दोलां बध्वा नन्दनवने क्रीड्यते
॥६३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org