SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ५० 'श्री हीरसुन्दर' महाकाव्यम् स्त्रीभर्त्तारौ इमौ नाथीकूंरौ क्रीडार्थं ये सरांसि सरितो वन्यः वनानि पर्वताश्च तेषां भूमीषु स्थानकेषु विलेसतुर्विविधां क्रीडां केलतीकामाविव चक्रतुः ॥५६॥ हीसुं० 'सकाकतुण्डैणमदद्रवाङ्कितोरसोः परिक्षालनतः कदापि तौ । सुतामिवार्कस्य विहार वाहिनीं 'विनिर्मिमाते 'जलकेलिलालसौ ॥५७॥ हील० (१) कृष्णागुरुमिश्रितकस्तूरिकापङ्कवितिस [ व्याप्त ? ] वक्षसोः । (२) यमुनाम् । (३) क्रीडानदीम् । ( ४ ) चक्राते । (५) सलिलखेलनलोलुपौ ॥५७॥ सका० । कदापि कस्मिन्नपि समये सह कृष्णागुरुणा वर्त्तते । तादृशो यष्क (: क) स्तूरिकापङ्कस्तेन व्याप्तयोरुरसोर्धावनतः विलासनदीं यमुनोपमां कुर्वाते । “विहारस्तु जिनालये लीलायां भ्रमरे स्कन्धे" इत्यनेकार्थः ॥५७॥ हीसुं० 'कुमुत्स्मिता षट्पदपङ्क्ति कुन्तला स्मितोत्पलाक्षी कजकुड्मलस्तनी । प्रियेव 'पाथ:प्लवने 'सहंसका "तरङ्गहस्ता सरिदालिलिङ्ग तम् ‘॥५८॥ (१) कुमुदेव तद्वद्वा हसितं यस्याः । ( २ ) भृङ्गश्रेणिरेव तद्वच्च केशा यस्याः । (३) विकचत्कुवलयमेव तद्वद्वा नयने यस्याः । ( ४ ) कमलस्य कोशावेव तद्वच्च कुचौ यस्याः । (५) जलेकेलिसमये । ( ६ ) सह नूपुरेण मरालेन वा वर्त्तते या । स्वार्थे 'क' प्रत्ययः । ( ७ ) कोला एव तद्वद्वा करौ यस्याः । ( ८ ) कुंराख्यम् ॥५८॥ हील० कुमु० । पाथः प्लवने जलकेलिसमये । नदीं प्रियेव तं आलिलिङ्ग । यथा पत्नी स्वभर्त्तारमाश्लिष्यति । किंभूता नदी प्रिया च ? । कुमुदेव तद्वद्वा स्मितं यस्याः । पुनर्भ्रमराणां पङ्क्तय एव तद्वद्वा कुन्तला यस्याः । स्मितकमलमेव तद्वदक्षिणी यस्याः । कमलमुकुलावेव तद्वत्स्तनौ यस्याः । सहंसकैर्मरालैर्नूपुराभ्यां च वर्त्तते सा । उभयतटस्थौ तरङ्गौ एव तद्वद्वा बाहू यस्याः ॥५८॥ हीसुं० वि'जृम्भिजाम्बूनदपद्मनिष्पतत्परागपिङ्गीकृतवारिशालिनि । समं करिण्या करिणेव पङ्कजाकरे ऽमुना क्रीडि कुरङ्गचक्षुषा ॥५९॥ (१) स्मेरसुवर्णकमलनिर्गलद्रजः पीतीकृतसलिलशोभा भासिते । ( २ ) सरसि । (३) क्रीडितम् । ( ४ ) नाथीदेव्या समम् ॥ ५९ ॥ हील० विकसितसुवर्णारविन्देभ्यो निष्पतत्परागपीतवारिणा शालिनि कमलाकरे । अनेन कुरङ्गाक्ष्या समं क्रीडितम् । यथा हस्तिन्या समं हस्तिना क्रीड्यते ॥५९॥ हीसुं० १स्मितारविन्दोदयदिन्दुविभ्रमादिवाम्बु' लीलासमये तयोर्मुखे । "विमुग्धसारङ्गचकोरशावका भजन्ति 'पौष्पामृतयोष्पि' ( : पि) पासया ॥६०॥ ( १ ) विकचत्कमलस्य तथा उदयच्चन्द्रस्य च भ्रान्त्याः । ( २ ) जलक्रीडासमये । (३) १. सहंसिका हीमु० । २. तरङ्गबाहुः हीमु० । ३. मरन्दपीयूषपिपासयाभजन् हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy