________________
द्वितीय: सर्ग: हील. यदी० । सरलाङ्गलीदीप्त्या व्याप्तौ । पुनर्जंकृतिकारिणी नूपुरे ययोस्तादृशौ । यस्याः पादौ कमलेऽनुकुरुतः
सदृशौ भवतः । कमले किंभूते ? । दलद्दले दलन्ति विजृम्भमाणानि पत्राणि ययोः । पुनः किंभूते ?।
मरन्दं नि:स्यन्दते-क्षरते इत्येवंशीले । नदन्तो वदन्तो हंसा ययोस्तौ ।।५२॥ हीसुं० 'स्फुरत्प्रभातैलकरम्बितान्तरे 'यदंहिपात्रेऽगुलिवृत्ति वर्ति ] वर्तिनः ।
नखाः प्रदीपा इव विस्फुरत्त्विषोऽपुषन्विभूषाम भिभूततामसाः ॥५३॥ (१) दीप्यमानकान्तितैलभृतमध्ये । (२) नाथीचरणरूपशरावके । (३) अङ्गलय एव दशा
स्तासु वर्त्तन्ते इत्येवंशीलाः । (४) भिन्नतमः समूहाः ॥५३॥ हील० कान्तिवितानमेव तैलं, तेन व्याप्तमन्तरं यस्य तादृशे चरणपात्रेऽङ्गलीदशा वर्तिनः नखाः प्रदीपा इव
शोभां पुष्टामकार्षुः ॥*५३।। हीसुं० व्यलीलसत्पाटलिमा पदाम्बुजद्वयस्य यस्याः सरसीजचक्षुषः ।
"स्वमाईवेनाभिभवं 'विधित्सतः प्रवालपुजैरुप दीकृतः किमु ॥५४॥ (१) शुशुभे । (२) रक्तत्वम् । (३) नाथीदेव्याः । (४) निजसुकुमालतया । (५)
कर्तुमिच्छन्ति (मिच्छतः) । (६) पल्लवपटलैः । (७) ढौकितम् ॥५४॥ हील० व्यली० । यस्याः कमललोचनायाश्चरणकमलद्वयस्य रक्तता विलसति स्म । किमुत्प्रेक्ष्यते । स्वमृदुतया
पराभवं कुर्वत: चरणद्वयस्य किसलयौघैः पाटलिमा प्राभृतीकृतः ॥५४॥ हीसुं० असौ जयन्ती 'जलजं स्वपाणिना रदैश्च तारश्रियमात्मना "श्रियम् । मृगाङ्कमास्येन रुचाऽपि चम्पकं स्मरस्य "हेतिष्कि(:कि)मु विश्वजित्वरी ॥५५॥
4इति नाथी । (१) कमलम् । (२) करेण (३) दन्तैः । (४) तारकशोभाम् । (५) लक्ष्मीम् । (६)
चन्द्रम् । (७) शस्त्रम् । (८) जगज्जैत्रम् ॥५५॥ हील० किमुत्प्रेक्ष्यते । असौ विश्वे जयनशीला स्मरस्य हेतिः शस्त्रम् । असौ किंकुर्वती ? । कमलं स्वकरेण
जयन्ती । पुना रदैस्ताराणां निर्मलमौक्तिकानां शोभां, पुनर्लक्ष्मी स्वस्वरूपेण मुखेन चन्द्र कान्त्या
चम्पकं जयन्ती ।।*५५।। हीसुं० अथो मिथ:१ प्रीति परीतदम्पती इमौ कलाकेलिविलासशीलिनौ ।
विलेसतुः केलि सरस्सरिद्वनीगिरीन्द्रभूमीषु रतिस्मराविव ॥५६॥ (१) परस्परम् । (२) प्रेमकलितौ नाथीकुंराख्यौ । (३) कन्दर्पक्रीडाकारिणौ । (४)
खेलत( : )स्म । (५) क्रीडातडाक-नदी-कानन-शैल-क्षितिषु ॥५६॥ हील० अथो० । कलाकेलेः स्मरस्य विभ्रमं शीलतो भजन्त इत्येवंशीलौ । पुनः प्रमोदेन व्याप्तौ दम्पती 1. प्रभाप्रथातैल० हीमु० । 2. रमाम् हीमु० । 3. च हीमु०। 4. इति नाथीसर्वाङ्गवर्णनम् हील०- ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org