SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ 'श्री हीरसुन्दर' महाकाव्यम् (६) अन्योन्यमेव साम्यं ययोः अन्यतदुपमेयपदार्थाभावात् ॥४८॥ हील० करी० । भद्रगजशुण्डादण्डात्कार्कश्यं निराकृत्य । पुनः रम्भास्तम्बात् असारतामपास्य । पश्चाद्द्वौ गृहीत्वा यस्या ऊरुयुग्मं धात्रा निर्मितम् ॥४८॥ ४८ हीसुं० यदूरुजङ्घायुगयोर्विवृत्स' तोष्प ( : प ) रस्पराद्वैत' तया विरोधिनोः । * द्विराजताया भयतस्तदन्तरानिवासिजानू किमल क्ष्यतां गतौ ॥४९॥ (१) वर्द्धितुमी (मि)च्छतो: । ( २ ) अन्योन्यासाधारणलक्ष्मीकत्वेन । ( ३ ) वैरभाजोः । (४) द्वयोराज्ञेोर्भावो द्विराजता । ( ५ ) ऊरुजङ्घायुगयोर्मध्ये निवसनशीलौ जानू । ( ६ ) अदृश्यताम् ॥४९॥ होल० यदूरु० । अन्योन्यं विरुद्धभावधारिणोः । पुनर्वर्द्धितुमिच्छतो यस्या ऊरुजङ्घायुगयोयद्वैराज्यं तस्य भयतः । तयोर्जङ्घायुगयोर्मध्ये निवासिनौ जानू ऊरुपर्वणी किमदृश्यतां प्राप्तौ ॥ ४९ ॥ हीसुं० रतीशगेहेऽजनि यत्र जङ्घयोर्गृहाश्रयस्थूणिकयोरिव द्वयम् । यदीयगुल्फावपि गुप्ततां गतौ किमंहि शोचिः सलिले निमज्जनात् ॥५०॥ (१) नाथीतनुरूपे मदनमन्दिरे । (२) भवनाधारस्तम्भयोः । (३) नाथीदेव्याश्चरणग्रन्थी । ( ४ ) पदकान्तिसलिले ॥५०॥ हील० रती० ॥ यत्र देहे जङ्घयोर्द्वयमजनि । उत्प्रेक्ष्यते । कामसद्मनि गृहस्याश्रयो यस्मिन् तादृशस्तम्भयोर्द्वयमिव । पुनर्यस्या गुल्फौ अदृश्यतां गतौ । उत्प्रेक्ष्यते । अङ्घ्रयोः कान्तिरेव सलिलं, तस्मिन्निमज्जनादेव 11*4011 हीसुं० 'पदारविन्दोन्नतताभिरात्मनः पराजितैः कुञ्जरराजयानया । हील० अगोपि मन्दाक्षविलक्षितात्मभिर्व'ने वसद्भिः कम' ठैः किमाननम् ॥५१॥ ( १ ) क्रमकमलौन्नत्यैः । ( २ ) गजेन्द्रगमनया । (३) गुप्तीकृतम् । ( ४ ) लज्जा । ( ५ ) वनं जलं का [ ? ] कान्तारश्च । ( ६ ) कच्छपैः ॥५१॥ पदा० । गजगमतया तया स्वस्य चरणकमलयोरुन्नतत्वेन जितैस्सद्भिः । ह्रिया विमनीभूतस्वरूपैष्पु(: पुनर्वने पानीय तिष्ठद्भिः । कच्छपैः मुखं गुप्तीकृतमिव ॥ *५१|| हीसुं० यदीयपादौ सरलाङ्गुली द्युता करम्बितौ झांकृतिकारिनूपुरौ । श्रियानुयातः कमले 'दलद्दले 'मरन्दनिः स्यन्दिनदत्सितच्छदे ॥५२॥ (१) कान्त्या । ( २ ) मिश्रितौ । ( ३ ) रणज्झणितिशब्दं कुर्व (रु)त इत्येवं शीले नूपुरे ययोः । ( ४ ) सदृशीभवतः । (५) विकसन्ति दलानि ययोः । ( ६ ) मकरन्दरसो ऽस्त्यनयोस्तथा शब्दायमाना हंसा ययोः ॥५२॥ 1. ० द्वैतविरोधिताजुषो: हीमु० । 2. गताविवाङ्घ्रिशो० हीमु० । 3. ०मठैरिवाननम् हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy