SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः ४७ तृतीयां लिप्त्वा सखीदमूचुषी ब्रुवास(णा) । हे सखि ! त्वया कीर्त्या गङ्गा, वाचा सरस्वती, केशरचनाभिर्यमी जिता एता त्रिवलीमिषादेत्य त्वां सेवन्ते ॥४३-४४|| हीसुं० निरीक्ष्य लक्ष्मी निजभर्तुमातरं स्थितां सदाध्यास्य 'विकासि पङ्कजम् । इवानुकर्तुं रतिरात्मनापि तां यदी यनाभीनलिने निषेदुषी ॥४५॥ (१) निजभर्तुः कामस्य जननी तस्य श्रीनन्दनत्वात् । (२) स्मेरकमलम् । (३) स्वेन । (४) श्रियम् । (५) नाथीनाभिकमले । “नाभीमथैष श्लथवाससा नुतिः" नैषधे (६) स्थिताः ॥४५॥ हील० निरी० । रतिः कामपत्नी यन्नाभिकमले निषेदुषी स्थितवती । किंकृत्वा ? । निजभर्तुः कामस्य . जननीं विकसितपुष्पमाश्रित्य स्थितां दृष्ट्वा तां स्वेन सदृशीभवितुम् ॥*४५|| हीसुं० १अगण्यलावण्यतरङ्गचडिमानुषङ्गिशोचिःसुरसिन्धुसन्निधौ । निखेलितुं किं पुलिनं स्मराभ्रमूप्रियस्य यस्या जघनं विधिळधात् ॥४६॥ (१) प्रमातुमशक्याया यद्वपुःसुभगतायाः कल्लोलानां लावण्यलहरीणां रमणीयतायाः सङ्गोऽस्त्यस्य तादृक्शोचिरेव गङ्गा तस्याः समीपे । (२) क्रीडितुम् । (३) जलोज्झितं तीरम् । (४) मदनरूपैरावणस्य ॥४६॥ हील० अग० । यस्या जघनं धाता चक्रे । उत्प्रेक्ष्यते । अगण्यं यल्लावण्यं तस्य तरङ्गाणां चारुता यत्र ताद्दक् । शोचिरेव सुरनदी तस्याः पार्श्वे स्मर एवैरावणस्तस्य क्रीडितुं किं तटम् ॥४६|| हीसुं० अजय्यवीर्यं 'मृडामन्यहेतिभिर्विजि त्वरीभिर्जगतोऽपि "जानता । स्मरेण धात्रा किमु कार्यते स्म यन्नितम्बचक्रं "युवयोगिधैर्यजित् ॥४७॥ (१) जेतुमशक्यपराक्रमम् । (२) ईश्वरम् । (३) अपरप्रहरणैः । (४) जयनशीलाभिः । (५) अवधारयता । (६) निर्मापितम् । (७) तसगाश्च योगिनो वशीकृतात्मानश्च, अथ तरुणाः सन्तो योगिनस्तेषां धैर्यं ब्रह्मव्रतं जयति ध्वंसते इति न हि प्रायो वृद्धानां मदनाभिलाषः स्यात् ॥४७॥ हील० : अन० । अन्यशस्त्रैर्जगज्जयनशीलैरपि । ईश्वरं अजेयपराक्रमं जानता स्मरेण विश्वसृष्टिकृता पार्श्वे यस्या नितम्बचक्रं कारितम् । यदि अन्यैर्जगज्जेतृभिर्न जातं तर्हि चक्रेणापि किं भावि । अतश्चक्रं युवयोगिधैर्यजित् ॥४७॥ हीसुं० 'करीन्द्रहस्तात्कदलीप्रकाण्डतो निरस्य "कार्कश्यमसारतां पुनः । इमौ किमादाय परस्परोपमं यदूरुयुग्मं विधिना विनिर्ममे ॥४८॥ (१) करिशुण्डादण्डात् । (२) रम्भास्तम्भाच्च । (३) अपाकृत्य । (४) कठिनताम् । (५) प्रकाण्डो मूलशाखानिर्गमनप्रदेशयोरन्तरालवर्ती विभागस्तत्रासारतां निर्बीजत्वम् । 1. विजृम्भि हीमु० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy