________________
४६
'श्री हीरसुन्दर' महाकाव्यम् हीसुं० 'यदीयहृत्केलिनिकेतखेलिनं 'झषाङ्कमाकारयितुं सुहृत्तया ।
"सितांशुनेव प्रहितोडु मण्डली विभाति यद्वक्षसि मौक्तिकावली ॥४०॥ (१) नाथीहृदयं एव क्रीडागृहे लीलायमानम् । (२) स्मरम् । (३) मित्रत्वेन । ( ४ ) शशिना।
(५) नक्षत्रश्रेणिः ॥४०॥ हील० यदी० । यस्या हृदि हारलता भाति । उत्प्रेक्ष्यते । यदीयहदेव क्रीडानिकेतं तत्र खेलते इत्येवंशीलं
कामं सुहत्तया आह्वयितुं प्रेषिता तारकश्रेणिरिव । झषाङ्कं मकरध्वजमिति ॥४०॥ हीसुं० रथाङ्गलीलां दधतौ 'प्रभाम्भसि स्तनौ तदीयौ स्फुरतः सचूचुकौ ।
मरन्दलुभ्यद्भमराभिषङ्गिनौ( णौ) 'सुवर्णपङ्केरुहकुड्मलाविव ॥४१॥ (१) चक्रवाकशोभाम् । (२) शरीररुचिजले । (३) मकरन्दपानार्थं लोलुपीभवतां भ्रमराणां
संयोगयोः । (४) कनककमलकोशौ ॥४१॥ हील० प्रभानीरे चक्रवाकयोमलां धारयन्तौ तदीयौ स्तनौ स्फुरतः । उत्प्रेक्ष्यते । मकरन्देषु लुभ्यतां
लोलुपीभवतां भ्रमराणां सङ्गो ययोस्तादृशौ कनककमलकोशौ इव ॥४१॥ हीसुं० 'तनूलतागाधतरङ्गितप्रभाप्रतानपाथोधिपयस्तितीर्षया ।।
'हरिन्मणीसेतुरिवात्म जन्मना व्यधायि रोमावलिरेणचक्षुषः ॥४२॥ (१) नाथीदेवीशरी( र)यष्टेः अतिशायिकल्लोलयुक्तं जातं यत्कान्तिकदम्बकं तदेव
समुद्रस्तज्जलस्य तरीतुमिच्छया । (२) मरकतमणिमया पद्या । (३) स्मरेण ॥४२॥ हील० तनू० । मृगदृशः लोमा श्रेणी भाति । उत्प्रेक्ष्यते । स्मरेण नीलरत्ननिबद्धः सेतुर्विहितः । परं किमर्थं
कामयष्टेरगाधं तरङ्गितं यत्कान्तिवितानं स एव समुद्रस्तस्य पयसां तरीतुमिच्छया ॥४२॥ हीसुं० द्रवीभवद्भरिसिताभ्रचन्दनप्रगल्भवाह्लीककुरङ्गनाभिभिः ।
विलिप्य काचित्कुतुकात्पृथगवली: कदाचिदेतामिदमूचुषी सखी ॥४३॥ त्वया स्वकीया॑ सुमनस्तरङ्गिणी वचोविलासेन पुनः सरस्वती । "यमस्वसा 'कुन्तलभङ्गिभिर्जिता भजन्त्युपेत्य त्रिवलीच्छलादिव ॥४४॥युग्मम्॥ (१) जलीभवन्त्यः बहुलं कर्पूरं यत्र तादृक् श्रीखण्डं तथा प्रकृष्टं यत्कुङ्कम तथा कस्तूरिकास्ताभिः । (२) उदरे मांससङ्कोचलक्षणाः । (३) भाषितवती ॥४३॥ (१)गङ्गा । (२) वाक्चातुर्येन( ण)।(३) वाग्वादिनी । (४) यमुना । (५) केशरचनया।
(६) गङ्गा-सरस्वती-यमुनाः सेवन्ते । (७) त्रिवलीकपटेन ॥४४॥ हील० दवी० । द्रवीभवन् । भूरिः कर्पूरो यत्र तादृक्चन्दनं पुनर्मनोज्ञं कुङ्कमं च कस्तूरिका च ताभिः
कृत्वा । भिन्ना भिन्ना वली(वि)लिप्य सिताभ्रेण चन्दनेन प्रथमां, कुङ्कमेन द्वितीयां, कस्तूरिकया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org