SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः ४५ हील० अनन्य० । या बाहुयुगली बिभत्ति स्म । यथा धुनी नदी उन्मिषन्ती बिसलतां धत्ते । या कि कुर्वती ? । असाधारणलावण्यतरङ्गाणां चारुतां पुनर्नितम्बावेव लीलातटं बिभ्रती ॥* ३५।। हीसुं० 'सकुङ्कमैतद्वदनेन निर्जितं जिगीषया तच्छलदर्शनोत्सुकम् ।। किमागतं को कनदं तदन्तिके चकास्ति तस्या नवपाणिपल्लवः ॥३६॥ (१) घुसृणयुक्तम् । (२) नाथीवक्त्रपराभूतम् । “अयमुदयति घुसृणारुणतरुणीवदनोपमश्चन्द्रः" इति विदग्धमुखमण्डने । (३) जेतुमिच्छया । (४) नाथीमुखच्छिद्रान्वेषणे उत्कण्ठितम् ।। (५) रक्तकमलम् ॥३६॥ हील० तस्या नवनं नवः स्तुतिः । तद्युक्तो यः करपल्लवश्चकास्ति । उत्प्रेक्ष्यते । सकुङ्कमेन निर्जितं सत् जेतुमिच्छया मुखछलालोकनोत्कं मुखपार्श्वे आगतं रक्तोत्पलम् ॥३६।। हीसुं० 'पृथक्पृथक्पञ्चमुखद्विषन्मुखान्निहन्तुकामेन रुषा मनोभुवा । शराश्रये यत्करनाम्नि 'कल्पिता अमी शराः पञ्च "किमङ्गुलीमयाः ॥३७॥ (१) ईश्वर एवारिस्तस्य पञ्चापि मुखानि पृथक् पृथक्छेत्तुकामेन ।। (२) तूणीरे । (३) नाथीहस्ताभिधाने । (४) निर्मिताः । (५) नाथीदेव्याः पञ्चाङ्गुलिरूपाः ॥३७॥ हील० पृथ० । क्रुधा भिन्नानि भिन्नानि कृत्वा शंभुमुखान् छेत्तुमिच्छता कामेन यस्याः कर एव नाम यस्य तादृशे तूणीरे अङ्गुलीरूपाः किं एते बाणाः ॥३७।। हीसुं० 'यदीयपृष्ठे कनकत्विषि स्मितप्रसूनशून्येतरकुन्तलच्छटा । *शिलातले रेस्वगिगिरेरिव "ग्रहाङ्किताभ्रवीथी प्रतिबिम्बिता व्यभात् ॥३८॥ . (१) तनोश्चरमे भागे वंशके इत्यर्थः । (२) विकचत्कुसुमकलितकेशपाशः । (३) मेरोः । (४) शिलोत्सङ्गे।(५) तारकयुक्तं गगनस्थलम् । “स्वःसोपानपरंपरामिव वियद्वीथीमलङ्कवते" इति चम्पूकथायाम् ॥३८॥ हील. यदी० । यस्याः पृष्ठभागे विकसितपुष्पभृता केशश्रेणि ति स्म । इवोत्प्रेक्ष्यते । मेरोः शिलातले ग्रहयुक्ता प्रतिबिम्बिता गगनपद्धतिरिव । किंभूते पृष्ठे शिले? । कनकत्विषि कनकेन कनकत्वेन त्विषते दीव्यते इति काञ्चनत्विट् । तस्मिंस्तादृशे ॥३८॥ हीसुं० 'परानवाप्यान्निजवारापत्तनान्मनोभिधानान्मदनावनीभुजः । जगद्विजेतुं चलितस्य रहृत्सुमस्त्रजा पुरो "वन्दनमालिकायितम् ॥३९॥ (१) अन्यनरैः प्राप्तुमशक्यात्तस्याः सतीत्वेन आत्मनः कन्दर्पस्य वसनार्थं पत्तनात् । (२) मनोनामनगरात् । (३) वक्षःस्थलस्थायुककुसुमहारेण । (४) मङ्गल्यमालेवाचरितम् ॥३९॥ हील० परा० । परैर्वैरिभिष्का(: का) मुकैर्वा नावाप्तुं योग्यात्नाथीचित्तनाम्नः जगज्जेतुं चलितस्य प्रस्थितस्य कामराज्ञः पुरस्तात् हृदि पुष्पमालया मङ्गलाय जातम् । परानवाप्येति पदेन सतीत्वमुद्भाव्यते ॥३९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy