SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ४४ 'श्री हीरसुन्दर' महाकाव्यम् हीसुं० 1कुशेशयादर्शसुधांशुजित्वरं विधाय वेधा 'इदमीयमाननम् । इदं दृशा मा कुदृरेशां प्रदुष्यतादितीव चक्रे चिबुकेन "दन्तुरम् ॥३१॥ (१) कमल-दर्पण-चन्द्रजयनशीलम् । (२) नाथीसम्बन्धिमुखम् । (३) क्षुद्रदृष्टीनां दृष्ट्या मा दुष्यतात्, दृष्टिदोषो मा स्तादित्यर्थः । (४) विषमोन्नतम् ॥३१॥ हील० कु० । कमलदर्पणचन्द्रजैत्रं मुखं निष्पाद्य दुर्जनानां दशा मा विकृति गच्छतादिति चिबुकेन विषमोन्नतं चक्रे ॥३१॥ हीसुं० विजित्य 'कान्त्या जगृहे क्रुधा यदाननेन लक्ष्मी: क्षणदापतेस्तथा । हृदस्फुटच्चेन्न कुतस्ततस्सुधा निरी(रि)त्वरी ३क्षुद्रतदङ्करन्ध्रतः ॥३२॥ (१) शोभया । (२) चन्द्रस्य । (३) लघुचन्द्रवक्षछिद्रतः लाञ्छनरूपं वा छिद्रम् ॥३२॥ हील० विजि० । यस्या मुखेन निशापतेश्चन्द्रस्य श्रीस्तथा गृहीता यथा तस्य हृदयं स्फुटितम् । इति चेन्न तर्हि तस्य क्षुद्रलघुकलङ्करन्ध्रात् ततश्चन्द्रात्सुधा कुतो निर्गच्छति ॥३२।। हीसुं० समं यदास्येन मधे 'महौजसा निरोजसा ऽभाजि किमेण लक्ष्मणा । यतोऽमुनाऽद्यापि, तदङ्कबोधिका "व्यमोचि ना भ्रभ्रमणी कदाचन ॥३३॥ (१) सङ्ग्रामे । (२) अतिबलवता । (३) निर्बलेन । ( ४ ) पलायितम् । (५) चन्द्रेण । (६) तस्य भङ्गस्य चिह्नस्य ज्ञापयित्री । (७) मुक्ता । (८) गगनपर्यटनम् ॥३३॥ हील० समं० । महाबलेन यन्मुखेन सह मृधे रणे निर्बलेन मृगाङ्केन भग्नम् । यत अमुना चन्द्रेण तस्य भङ्गस्य चिह्नज्ञापयित्री अभ्रभ्रमणी अद्यापि न मुक्ता ॥३३।। हीसुं० 'त्रिनेत्रनेत्रानलभस्मितात्मभूप्रभोर्जग निर्जयवादनोचितः । जगत्कृतादाय यदङ्गनिम्मितौ किमेष 'कम्बुर्गलकन्दलीकृतः ॥३४॥ (१) ईश्वरभाललोचनवह्निना भस्मीभूतमकरध्वजराजस्य । ( २ )त्रिभुवनविजयं कृत्वा वादनयोग्यः । (३) विधिना । (४) नाथीशरीरनिर्माणे । (५) स्मरशङ्खः कण्ठपीठः कृतः ॥३४॥ हील. त्रिनेत्र० । ईश्वरनेत्राग्निदग्धकामनृपस्य जगज्जये वादनार्हः एषः शङ्खः । अस्यास्तनुनिष्पादने कण्ठपीठतां धात्रा प्रापितष्कि(: कि)मु ॥३४॥ हीसुं० स्फुरत्प्रभापूगतरङचङ्गतां नितम्बलीलापुलिनं च बिभ्रती । धुनीव रोधौ[ धो ]विहसन्मृणालिकां भुजाद्वयीं या बिभ“राम्बभूवुषी ॥३५॥ (१) दीप्यमानकान्तिप्रतानकल्लोलच्चारुताम् । (२) नितम्ब एव क्रीडाकरणार्थं जलोज्झिततीरम् । (३) नदीतटे विकसन्त्यौ मृणालिके यस्याः । (४) दधौ ॥३५॥ 1. गलस्थलवर्णन इति प्रतिपार्श्वे टि० । 2. बाजूर्याच्छ्दांच्छे (?) इति प्रतिपार्श्वे टि० । ३. अनन्यलावण्यतर० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy