SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः स्वभावेन । (५) क्षीरसमुद्रस्य । (६) 'विद्रुमः ॥२६॥ हील० नि० । यस्या दन्तवस्त्रे पतनशीलेन दन्तकान्तिमिश्रितेनेषद्धसितेन बभे । उत्प्रेक्ष्यते । क्षीरसमुद्रस्य प्रवाले निपातुकेन पुनर्वातव्रजेन तरङ्गयुक्तीकृतं स्वरूपं यस्य तादृशेन जलेन शोभितम् ।।२६।। हीसुं० 'स्वकान्तवक्त्रामृतकान्तिदर्शनात् 'हृदन्तरुद्वेलितरागसागरात् । निरी( रि)त्वरी विद्रुमकन्दलीवर यद्वि लासवत्या 'दशनच्छदो बभौ ॥२७॥ (१) निज कुंरा 'भिधवल्लभवदनचन्द्रवीक्षणात् । (२) मनोमध्ये वेलामतिक्रान्तादनुराग समुद्रात् । (३) निर्गमनशीला । (४) नाथीदेव्याः । (५) अधरे ॥२७॥ हील० स्वका० । यस्या विभ्रमवत्या ओष्ठो बभौ । उत्प्रेक्ष्यते । स्वभर्तुर्यो मुखचन्द्रस्तस्य दर्शनात् मनोमध्ये वेलामतिक्रान्त उद्वेलः उद्वेलत्वं सञ्जातमस्मिन्स तस्मादुद्वेलिताद् रागसमुद्रान्निर्गमनशीला प्रवाललतेव ॥२७|| हीसं० द्विजाधिपत्यं मुख एव 'मुख्यतो मृगीदशो यो न कमद्वतीपतौ । "द्विजैरमीभिर्यदसौ दिवानिशं निषेवणागोचरतां स्म नीयते ॥२८॥ (१) द्विजानां राजता । (२) प्राधान्यतः । (३) न चन्द्रे । (४) दशनैः । (५) सेव्यते ॥२८॥ हील० द्विजा० । अस्या मुखे द्विजानामाधिपत्यं न चन्द्रे । मुख शब्दः पुनपुंसके । यस्मादसौ मुखः दन्तैः सेवाया गोचरं प्रापितः ॥★ २८|| हीसुं० 5श्यदाननान्तर्वसतेः सुधारसादिवोद्गतः पाटल एष कन्दलः । विलासदोलेव निखेलितुं गिरोऽथवा 'मृगाक्षीरसना स्म भासते ॥२९॥ (१) यद्वक्त्रमध्ये । (२) प्ररूढः । (३) रक्तः । (४) सरस्वत्याः । (५) नाथीजिह्वा ॥२९॥ हील० यदा० । तस्या जिह्वा शोभते स्म । उत्प्रेक्ष्यते । यदाननमध्ये वसितात्सुधारसा-प्ररूढो रक्त एषोऽङ्करः वायवा सरस्वत्याः प्रेखेव ॥ २९॥ हीसुं० 'यदीयवाचं विधिना विधित्सुना 'सुधामुपात्तामधिगत्य: ५निस्तुषाम् । सुधाशना अध्वरभोजिनस्तदादितो बभूवुस्तदभावतः किमु ॥३०॥ (१) नाथीवाणी । (२) कर्तुकामेन । (३) गृहीताम् । (४) ज्ञात्वा । (५) समग्राम् । (६) देवाः । (७) यज्ञभुजः । (८) तद्दिनादारभ्यः । (९) सुधाया अभावात् ॥३०॥ हील० यदी० । यद्वाचं विधातुमिच्छुना धात्रा सुधां समग्रां गृहीतां ज्ञात्वा देवा यज्ञांशभोज्यकारकाः किं तत्प्रभृति जाता ॥३०॥ 1. प्रवाल इति प्रतिपार्श्वे टि० । 2. च हीमु० । 3. ०शोऽस्या न० हीमु० । 4. ०वणाया विषयं हीमु० । 5. जिहावर्णन इति प्रतिपार्श्वे टि० । 6. शोभते हीमु० । 7. नाथीवाणीवर्णन इति प्रतिपार्श्व टि० | 8. ०गम्य हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy