SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ 'श्री हीरसुन्दर' महाकाव्यम् यस्या अङ्गस्य रुचां कान्तीनां पुञ्ज एव जलधिस्तन्निकटे पताकाञ्चितः कीत्तिस्तम्भः कृतः ॥२२॥ हीसुं० वि'डम्बिताखण्डमृगाङ्कमण्डले कपोलपाली स्फुरतः तदानने । 'मणीमये दर्पणिके "यदोकसोरिमे रतिप्रीतिमृगीदृशोरिव ॥२३॥ (१) स्वश्रिया अनुकृतं पूर्ण चन्द्रबिम्बं याभ्याम् । (२) रत्ननिर्मिते । (३) आदर्शिके "यन्मतौ विमलदर्पणिकाया" मिति नैषधे । (४) नाथीदेव्येव गृहं ययोः ॥२३॥ हील० विड०। विडम्बितं अनुकृतं वा सम्पूर्णचन्द्रमण्डलं याभ्यां तादृशे गल्लस्थले तस्या मुखे लसतः । उत्प्रेक्ष्यते । या नाथी एवौको गृहं ययोस्तादृश्योः कामकान्तयोः इमे दृग्लक्ष्ये रत्नरचिते आदर्शिके इव ॥२३॥ हीसुं० किमिच्छता 'पाशयितुं 'जगत्त्रयीयुवव्रजान्वारेगुरिकेन(ण) “रङ्कवत् । स्मरेण "यादष्प( :प) तिपाशजित्वरी दधे द्विपाशी सुदृशः श्रुतिद्वयी ॥२४॥ (१) पाशपतितान् कर्तुम् । (२) त्रैलोक्यतरुणगणान् । (३) जालिकेन । (४) मृगानिव । (५) वरुणपाशस्य जयनशीला । (६) पाशद्वयम् ॥२४॥ हील० किमि० । सुनयनायाः श्रुतिद्वयी भाति । उत्प्रेक्ष्यते । जगत्तरुणव्रजान्पाशयितुं कामेन याद:पतिपाशवरुणपा[श] जैत्री । द्वयोः पाशयोः समाहारो, द्विपाशी धृता ॥२४॥ हीसुं० वियोगवत्योषधि योषया 'यदाननीभवत्कान्तसितद्युतिं प्रति । स्थितस्तदङ्के प्रहितस्तनूजवत् प्रवाल आह्वातुमिवाधरोपधेः ॥२५॥ (१) नाथीदेव्याः विरहिण्या औषधिरेव कान्ता तया । (२) नाथीवदनरुपजातं स्ववल्लभं चन्द्रम् । (३) वदनचन्द्रोत्सङ्गे । (४) पुत्र इव । (५) पल्लवः प्रकृष्टबालश्च बवयोरैक्यात् । (६) आकारयितुम् ॥२५॥ . हील० वियो० । वियोगो विरह: । वीनां भृङ्गखगादीनां योगस्सम्बन्धो यस्यास्तादृशी औषभिरेव योषा स्त्री तया। यदाननी भवन्तं नाथीवक्त्रं सम्पद्यमानं स्वभर्तारं चन्द्रं प्रति आकारयितुं प्रेषितस्तनूजवत्पुत्र इव। प्रवालः प्रकृष्टो दक्षो बाल:-शिशुः पल्लवश्च । उत्प्रेक्ष्यते । ओष्ठमिषाच्चन्द्रोत्सङ्गे स्थित इव बालः-सुतः पितुरुत्सङ्गे तिष्ठतीति स्थितिः ॥२५॥ हीसुं० नि पातुकेन द्विज'कान्तिमिश्रितस्मितेन यस्या रदनच्छदे बभे । जलेन "वातूलतरङ्गितात्मना 'सुधापयोधेरिव हेम कन्दलः ॥२६॥ (१) पतनशीलेन । (२) दन्तद्युतिमिलित । (३) अधरे । (४) वायुसमुहेन कल्लोलित 1. कपोलस्थलवर्णन इति प्रतिपार्श्वे टि० । 2. मस्तककेसवर्णन इति प्रतिपार्श्वे टि० । 3. होठवर्णन इति प्रतिपार्श्वे टि० । 4. वत्यौ० हीमु० । 5. दले हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy