SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः हीसुं० मृगीदृशो 'हेलितकेलतीश्रियो ललाटपट्टे कुरलेन निर्बभे । स्मितारविन्दस्य धियेव तस्थुषा यदानने पौष्य पिपासया लिना ॥ १९ ॥ (१) अवगणितरतिशोभायाः "केलतीमदनयोरुपाश्रये" इति नैषधे । ( २ ) भ्रमरालकेन भ्रमराकारेणालकनिकरेण । (३) मकरन्दपानस्पृहया ॥१९॥ हील० मृगी० । हेलितावगणिता केलत्याः कन्दर्पपत्न्या रत्याः श्रीः शोभा यया । तादृश्यास्तत्या: कुरलेन भ्रमरालकेन निर्बभे शोभितम् । उत्प्रेक्ष्यते । युदानने पौष्पं मरन्दं पातुमिच्छया तस्थुषा विकसितकमलबुद्ध्या स्थितेन भ्रमरेण ||१९|| हीसुं० "अमूदृशाम्भोजदृशा स्म भूयते न जातुचिद्यौवत निम्मितौ मम । "इतीव रेखेय' मिदंमुखे 'मषेर्मिषाद्भ्रुवोर्नाभिभुवा व्यधीयत ॥२०॥ ( १ ) ईदृशया । ( २ ) स्त्रिया । स्त्रिया [ ? ] ( ३ ) कदाचिदपि । ( ४ ) युवतीसमूहनिर्माणे । (५) इति हेतोः । ( ६ ) अस्या वदने । (७) भ्रुवोः । (८) कपटेन । मषे रेखा नाभिभुवा विहिता "इदं यशासि द्विषतः सुधामुच" इति नैषधे ॥२०॥ ४१ हील. अमू० । अस्या मुखे भ्रुवोर्दम्भाद्धात्रा । इयं मषेः कज्जलस्य रेखा विहिता । इतीति किम् ? | मम युवतीनिकरनिर्माणे एतत्सदृशया पद्मनेत्रया जातुचित्कदाचिदपि न जातम् ||२०|| हीसुं० स्वकामिनी कैरविणी तनूभवे विरञ्चिना लो [च] नतामरवायिते । विधातुमङ्के किमु लोलके ( कै )वे यदास्यभाव: 'शरदिन्दुना 'दधे ॥२१॥ (१) स्वप्रियाया: कुमुद्वत्याः शरीरादुत्पन्ने कैरविणीपतिश्चन्द्रः । (२) धात्रा । ( ३ ) नाथीनयनीकृते । ( ४ ) नाथीवदनभावः । ( ५ ) शारदशशिना । शरदि कमलकुमुदानामुद्भवात् शरच्चन्द्रेणेति सार्थकविशेषणम् । ( ६ ) धृतः ॥ २१ ॥ हील. स्वपत्न्याः कुमुद्वत्याः अङ्गजाते । धात्रास्या नेत्रभावं प्रापिते । लोलकैरवे प्रति किमूत्सङ्गे कर्त्तुम् । शरच्चन्द्रे[ण] यन्मुखत्वं धृतम् ॥२१॥ हीसुं० विभाति यभ्रू युगभासिनासिका विजित्य विश्वत्रितयं मनोभुवा । 'यदङ्गरु'क्पूरपयोधिसन्निधौ कृतो यशस्तम्भ इव ध्वजाङ्कितः ॥ २२॥ (१) उपरि पार्श्वद्वयविलसद्भूयुगलशोभनशीला नासिका । ( २ ) स्मरेण । ( ३ ) नाथीशरीररुचिनिचयसमुद्रसमीपे । (४) कीर्तिस्तम्भ इव । (५) ध्वजकलितः ॥२२॥ हील० विभा० । यस्या भ्रुवोर्युगेन भासते इत्येवंशीला नासिका भाति । उत्प्रेक्ष्यते । मनोजेन जगज्जित्वा । 1. वदनवर्णन इति प्रतिपार्श्वे टि० । 2. नेत्रनासीकावर्णन इति प्रतिपार्श्वे टि० । 3. रुक्ञ्ज० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy