________________
४०
'श्री हीरसुन्दर' महाकाव्यम् हील० चले० । नाथी भातीति सम्बन्धः । उत्प्रेक्ष्यते । इयमस्थिरेत्यपवादश्रवणात् । प्रियेण कृष्णेन
तिरस्कृता सती उत्पन्नदुःखादस्याः शरीरेण किं लक्ष्मीरन्यजन्म प्रपेदे-प्रपन्ना *॥१५।। हीसुं० 'ततं वचो यस्य घनं पदाङ्गदध्वनिश्च काञ्च्याः 'सुषिरं पुनः स्वनः ।
तया बभे जङ्गमरङ्गशालया किमत्र शृङ्गारनटस्य नृत्यतः ॥१६॥ (१) ततं वीणाप्रभृतिकम् । (२) तालप्रभृतिकम् । (३) नूपुर र]वः । (४) मेखलायाः।
(५) वंशादिकं सुषिरम् । (६) चलन्नतनस्थानम् ॥१६॥ हील० ततं०। तया बभे । उत्प्रेक्ष्यते । शृङ्गारनटस्य जङ्गमया चलन्त्या रङ्गशालया यत्र वीणाप्रभृतिकं ततं
वचनम् । पुनर्यत्र घनं तालादिकम् । पदाङ्गदानां नूपुराणां ध्वनिः । काञ्च्या रवः । सुषिरं वंशादिकं
भाति ॥१६॥ हीसुं० 4जगत्त्रयीजन्मजुषां मृगीदृशां विजित्य राजीनिजजित्वरश्रिया ।
अधारि किं मूर्द्धनि पद्मचक्षुषा "जयाङ्कबालव्यजनं 'कचच्छटा ॥१७॥ (१) त्रैलोक्योद्भूतानां । (२) जयनशीलशोभया । (३) नाथीदेव्या । (४) विज[य]सूचकं चामरम् । (५) केशपाशः । छटाशब्दः समूहवाची "तटान्तविश्रान्ततुरङ्गमच्छटा" इति नैषधे
॥१७॥ हील. जग० । त्रिजगति उत्पन्नानां स्त्रीणां श्रेणीनिजस्यात्मनो जित्वर्या श्रिया कृत्वा विजित्वा(त्य) ।अनया
केशपाशः जयसूचकं बालव्यजनं चामरं धृतम् । छटाशब्दः श्रेणीवाचकः । "तटान्तविश्रान्त
तुरङ्गमच्छटा" इति नैषधेऽपि ॥१७॥ हीसुं० विधुं द्विधाकृत्य विधिळधत्त[य]ल्ललाटमद्धेन शिवे न्यधात्परम् ।
न चेन्मृगाङ्कार्द्धधरः कथं हर: "किमदचन्द्रोपरमिति च तद्वहेत ॥१८॥
(१) द्वौ भागौ । (२) भालम् । (३) अर्द्धचन्द्रधरः । " लब्धार्द्धचन्द्र ईश" इति चम्पूकथायाम्। (४) अर्द्धचन्द्रसाम्यम् ॥१८॥
हील० विधुं० । विधाता चन्द्रं द्विधा कृत्वार्द्धन यस्या भालं चक्रे । अन्यदर्द्ध शिवे । उपलक्षणाच्छिवशिरसि
स्थापयामास । एवं तस्मात्तदा लब्धार्द्धचन्द्रो हरः कथं तल्ललाटं अर्द्धचन्द्रोपमानं अष्टमीचन्द्रोपमानं, कथं-कया रीत्या, वहेद्धरेत् ।।१८॥
1. यत्र हीमु० । 2. स्वनः पुनः हीमु० । 3. इति नाथी हील.। 4. अथ नाथीसर्वाङ्गवर्णनावसर: हील०। 5. मितं च हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org