SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ३८ 'श्री हीरसुन्दर' महाकाव्यम् हीसुं० समाप्य कामान्मरुतां स्वदारुतां 'निरस्य तेषां च वरात्प्रसेदुषाम् । मिषादमुष्येप्सितदित्सया 1 विशां 'मरुत्तरुः क्षोणिमिवावतीर्णवान् ॥८ ॥ ( १ ) सम्पूर्णीकृत्य । (२) मनोरथान् । (३) देवानाम् । (४) निजकाष्ठत्वम् । (५) अपाकृत्य । ( ६ ) प्रसन्नीभूतानाम् । ( ७ ) नराणां कामितानां दातुमिच्छया कुंरारूपेण । (८) कल्पद्रुमः ||८|| हील० देवानामभिलाषान्पूरयित्वा । पुनस्तेषां देवानां वरात्काष्ठत्वमपास्य । विशां नराणामीहित दातुमिच्छया एतदिभ्यमिषात्कि कल्पतरुरागतः *॥८॥ ही अतिस्म स्त] त्तनुकामनीयकैस्सहाभ्यसूयां दधतौ निजश्रियाम् । अनौचितीक्रुद्धजगत्कृतार्कजावकारिषातां वडवासुताविव ॥ ९ ॥ ( १ ) अतिक्रान्तः स्मरो यैः स्मरपराभविष्णुभिः कुंरारारीरस्य कमनीयताभिः । "कामनीयकमधः कृतकाम" मिति नैषधे । (२) ईर्ष्याम् । ( ३ ) योग्यत्वाभावेन कुपितेन विधिना । ( ४ ) अश्वौ कृतौ शब्दच्छलादिति, तत्त्वतस्तु अश्विनीसुतौ ॥ ९ ॥ हील० अतिक्रान्तः स्मरो यैस्तादृशैस्तस्य शरीरसौन्दर्यैः सहेर्घ्यं दधतौ प्रति अनौचित्या क्रुद्धेन धात्रार्कजौ हयासुताववौ कृतौ ॥९॥ हीसुं० मिथः परिस्पर्द्धितया 'वदान्यतागुणैर्विजित्य व्यवहारिणामुना । इमा( अ ) रक्ष्यन्त सुधाशधेनवः स्वगोधनस्योपधिनेव धामनि ॥१०॥ ( १ ) दानशीलत्वगुणैः । (२) कामगव्यः । ( ३ ) निजगोकुलकपटेन ॥१०॥ हील० मिथः ० । अमुना व्यवहारिणा स्वगोकुलमिषेण धामनि गृहे सुरधेनवः रक्षिताः । शेषं सुगमम् ॥१०॥ हीसुं० 'सुपात्रसस्नेहगुणाग्यवृत्तिभृत्तमः प्रतीपः २ स्वकुलप्रकाशकृत् । प्रदीपदेश्योऽपि परं न धूमभाक्कुलं न चाध्यामलयत्कदापि यः ॥ ११॥ (१) शोभनानि पात्राणि चतुर्विधसंघो यस्य । पक्षे अमत्रं शरावकं प्रीतिस्तैलं च औदार्यादिगुणैर्मुख्यां वृत्तिं बिभर्त्तीति । ( २ ) अज्ञानध्वान्तयोः शत्रुः । ( ३ ) स्वस्य कुले - गोत्रे गृहे च प्रकाशकर्त्ता । (४) कोप: ( ५ ) मलिनीचकार न ॥११॥ हील० सु० । सुशोभनानि पात्राणि यस्य, स्नेहेन सहितः । पुनर्गुणैरौदार्यादिभिर्मुख्यां आजीविकां बिभर्ति तादृशः । पुनस्तमः शत्रुम् । स्वस्य कुलस्य- वंशस्य गृहस्य वा प्रकाशकः । अत एव प्रदीपसमानोऽपि परं धूमं कोपं भजति तादृशो न । पुनर्यः कुलं वंश गृहं कदापि नाध्यामलयत् न मलिनीचकार । 1. विशामिवावनौ स्वः फलदोऽवतीर्णवान् हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy