SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः (५) किरति विस्तारयतीति । (६) द्वासप्ततिमिताभिः उदयांशैश्च सेवितः । ( ७ ) त्यक्तापगुणः । सरानिकः ( ? ) ॥४॥ हील० तमःस० । यो व्यवहारी ७२कलाभिः शशीव सेवितः । किंभूतः स इभ्यः शशी च ? । तमसोऽज्ञानस्य ध्वान्तस्य च वैरी । पुनः श्रितं शंभोजिनस्य शिवस्य च शिरः स्थायुकत्वाच्छीलनं सेवनं येन । कौ पृथिव्यां मुदं कुन्दि विकाशयति । पुनर्वचनमेव तत्तुल्यममृतं वर्षन् । परमेतच्चित्रं यन्मुक्ता दोषा अपगुणा येन । शशी तु सह दोषया रात्र्या वर्तते स सदोषः * ॥४॥ हीसुं० 'अलम्भि 'दम्भोलिशयेभशालिनी न कीर्त्तिरेतस्य परः शतैष्प ( : प )रै: । 'शरत्प्रसन्नीकृतचन्द्रगोलिका सुधामरीचेर्ग्रहतारकैरिव ॥ ५ ॥ ( १ ) प्राप्ताः । ( २ ) वज्रपाणिस्तस्य गजस्तद्वत् श्वैत्यात् शोभते इत्येवंशीला । ( ३ ) घनात्ययेन निरभ्रीकृता चन्द्रचन्द्रिका । (४) चन्द्रस्य ॥५॥ ० अ० । ऐरावणनिभा एतत्कीर्त्तिः परैर्नाप्ता । यथा ग्रहैश्चन्द्रिका नाप्यते ॥५॥ हीसुं॰ 'वहन्सुपर्व्वद्रुमरामणीयकं सनन्दनो गोत्रपरार्ध्यतां दधत् । ४ सुजातरूपः सुमनोमनोरमोऽनुयाति यः स्वेन सुपर्वपर्वतम् ॥ ६ ॥ ३७ १ ) कल्पतरुरिव वपुषा रमणीयतां कल्पद्रुमैश्च चारुत्वम् । (२) भाविनि भूतोपचारात्सह पुत्राभ्यां हीरजी — श्रीपालाभ्यां वर्तते यः । पक्षे वनम् । ( ३ ) वंशे शैलेषु च प्रकृष्टताम् । ( ४ ) शोभनमुत्पन्नं रूपं यस्य पक्षे स्वर्णम् । ( ४ ) सुमनोभिर्हारादिकुसुमै रम्यः निष्पापं मनसां सतां मनसि सुगुणधर्मित्वेन रमते वा । सुमनस्त्वेन मनोरमः सुमनसां मध्ये मनोज्ञः । पक्षे- दैव्यै रम्यः । (५) अनुकरोति । ( ६ ) मेरुम् ॥६॥ - हील० वह० । कल्पवृक्षास्तद्वत्तैश्च रम्यभावं वहन् । पुनः सह नन्दनाभ्यां हीरकुमार श्रीपालाभ्यां नन्दनवनेन [वा] वर्त्तति (ते) तथा गोत्रे वंशेऽचलेषु प्रकृष्टतां दधत् वा सुशोभनं जातं रूपं वा सुष्ठु जातरूपं स्वर्णं यत्र । सुमनसां सुमनस्त्वेन रम्यः । एतादृशो य इभ्यः मन्दरमनुकरोति ॥६॥ Jain Education International हीसुं० १जगज्जनावाङ्मनसावगाहिना 2 गभीरभावेन जितेन साधुना । सुधास्रवन्तीपतिना हृदा दधे किमेष रोषो वडवानलोपधेः ॥७॥ (१) विश्वलोकस्य वचनमनोगोचरातीते । (२) क्षीरसमुद्रेण । ( ३ ) कपटात् ॥७॥ होल० जग० । जगज्जनानां न वाङ्मनसौ अवगाहते इत्येवंशीलस्तेन वक्तुमशक्येनेत्यर्थः । गम्भीरस्त्वेन कृत्वा इभ्येन जितेन क्षीराब्धिना वडवाग्निरूपः । किमु कोपः धृतः * ॥७॥ 1. कला- ७२ । इति प्रतिपार्श्वे टि० । 2. गम्भीर० हीमु० । 3. वडवाचिषो मिषात हीमु० । For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy