________________
एँ नमः अथ द्वितीयः सर्गः ॥
हीसुं० 1 पुरेऽथ तस्मिन्व्यहारिपुङ्गवो बभूव कुंरा इति नाम धामवान् । महीरुहां स्वः शिखरीव विश्रुतो रसा स्पृशां न्यक्कृतविश्वनिः स्वतः ॥ १ ॥
( १ ) प्रह्लादनपुरे । (२) श्रेष्ठः वृषभो वा । (३) कल्पतरुः । (४) द्रुमाणां विख्यातः । (५) जनानाम् । ( ६ ) निराकृतजगद्दरिद्रभावः ॥१॥
हील० न्यक्कृता विश्वस्य निःस्वता येन सः । तादृशः कुंराश्रेष्ठी बभूव । अन्यत्सुबोधम् ॥ हीसुं० 'अरिष्टकेतुं 'नवभोगसङ्गिनं त्रिरेखपाणिं पुरुषोत्तमं पुनः । “भ्रमाद्विवोढुर्जलधेरिवोद्वहा महेभ्यमभ्येत्य" बभाज यं मुदा ॥२॥
(१) उपसर्गे दैत्ये च धूमकेतुः । ( २ ) विलासः सर्पकायश्च तत्सङ्गोऽस्त्यस्य । ( ३ ) आकृतिशङ्खः पाञ्चजन्यश्च हस्ते यस्य । ( ४ ) पुरुषेषु श्रेष्ठः कृष्णश्च । ( ५ ) भर्त्तुः । ( ६ ) लक्ष्मीः । (७) आगत्य ॥ २ ॥
हील० अरि० । जलधेरुद्वहा पुत्री लक्ष्मीः स्वपतिभ्रमात्कुंरासाधुं बभाज । किंभूतम् ? । अरिष्टेषु उपद्रवेषु अरिष्टनाम्नि वृषभरूपे दैत्ये धूमकेतुम् । नवभोगस्य सर्पस्य वा सङ्गिनम् । त्रिरेखः शङ्खः आकृत्या पाणौ यस्य तम् । पुनरुत्तमम् ॥२॥
हीसुं० 2" कुबेर इत्यात्म' जनावमाननां व्यपोहितुं 'किंपुरुषेश्वरः स्वयम् । वितीर्णसौवर्णमणीगणोऽर्थिनां 'प्रणीय ' यन्मूर्त्तिमिवावतीर्णवान् ॥३॥
( १ ) कुत्सितदेहः ( २ ) इत्यमुना प्रकारेण । (३) स्वस्य लोके अवहेलनाम् । ( ४ ) निराकर्त्तुम् । (५) धनदः । ( ६ ) याचकानां दत्तकनकरत्ननिकरः । (७) कृत्वा । (८) कुंरासाधुरूपम् ॥३॥
हील० कुबे० । कुत्सितवपुरित्यात्मनां जनेऽवगणनां अपकर्तुम्, प्रदत्तसुवर्णसमूहः रत्नगणः सन् यन्महेभ्यमूर्तिं निष्पाद्य स्वयं धनदो वसुन्धरायां अवतीर्णवान् ॥३॥
हीसुं० 'तमः सपत्नः श्रितशम्भुशीलनः कुमुद्विकासी ४ वचनामृतं "किरन् । शशीव यो शीलि "कलाभिरिभ्यराड् विमुक्तदोषः स तदत्र 'कौतुकम् ॥४॥
( १ ) अज्ञानस्यान्धकारस्य च शत्रुः । (२) शंभोस्तीर्थकृत ईश्वरस्य च सेवा येन (३) पृथिव्याः प्रमोदं कैरवाणि च विकासयतीत्येवं शीलः । ( ४ ) वचनमेवरूपं वा अमृतम् । 1. हीरपिता 'कुंरा' वर्णनम् इति प्रतिपार्श्वे टि० । 2. धनदावतार इति प्रतिपार्श्वे टि० । 3. ०काशी हेमु० । 4 शिवावतार इति प्रतिपार्श्वे टि० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org