SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ३५ प्रथमः सर्गः हील० यस्य० । द्वेषिणां मूलादुन्मूलनव्रतं जुषते-सेवते । तस्य सन्त्रासेनाकस्मिकभयेन कलिन्दपर्वत मध्यप्रविष्टानां वैरिराज्ञां स्त्रीसमूहस्य पृथ्वीतलविस्तृतैः कज्जलनीलिम्नाङ्कितैः पतद्भिर्बाष्पाम्बुपुरैः कृत्वा पद्मबन्धोः सूर्यस्य सुता यमुनाविरभवत्प्रकटीभूता ।।१३६।। हीसुं० सुत्रामाम्बुधिधामदिग्गिरिकुचद्वन्द्वाब्धिनेमीधवः ।। पृथ्वीपालललाटचुम्बितपदप्रोद्दामकामाङ्कश: । द्यां "स्वर्णाचलसार्वभौम इव यो निश्शेषविश्वम्भरां शासत्शात्रवगोत्रजिद्विजयते ६श्रीगूजरोर्वीपतिः ॥१३५॥ इति पण्डितदेवविमलगणिविरचिते हीरसुन्दरनाम्नि महाकाव्ये प्रथमप्रारम्भे जम्बूद्वीप-देश-नगरनृपादिवर्णनो नाम प्रथमः सर्गः ॥ (१) प्राचीप्रतीचीशैलावेव स्तनद्वयं यस्यास्तादृग्भूमेः पतिः । (२) नखः । (३) स्वर्लोकम् । (४) इन्द्रः "जाम्बुनदोवीधरसार्वभौम" इति नैषधे । (५) वैरिणां वंशं जयतीति शत्रव एव गोत्राः । (६) महमुन्दपातिसाहिः ॥१३५॥ इति प्रथमसर्गावचूरिः ॥ हील० सूत्रा० । श्रीगूर्जरोर्वीपतिर्विजयति(ते) । किंभूतः ? सुत्रामा शक्रः अम्बुधिधामा वरुणस्तयोदिशोगिरी पर्वतौ उदयास्ताचलाभिधानौ, तावेव कुचद्वन्द्वं यस्यास्तादृश्या अब्धिनेमेर्मेखलाया भूमेर्धवो भर्ता । पुनः किंभूतः?। पृथ्वीपालानां ललाटैश्चुम्बिताः पदयोः प्रकृष्टाः कामाङ्कशा नखा यस्य । किं कुर्वन् ? । निःशेषपृथ्वी शासत् पालयन् । यथा स्वर्णाचलसार्वभौ मश्चक्रवर्ती द्यां दिवं शास्ति । "जाम्बूनदोर्वीधरसार्वभौम'' इति नैषधे । राजा इन्द्रश्च किंभूतः ?। शात्रवाणां गोत्राणि-वंशान् । शात्रवा रिपव एव गोत्रा:-पर्वतास्तान् जयतीति ।।१३५।।। हील. →यं प्रासूतशिवाह्वसाधुमघवा सौभाग्यदेवी पुनः श्रीमत्कोविदसिंहसी( सिं )हविमलान्तेवासिवास्तोष्पतिम् । तद्ब्राह्मीक्रमसेविदेवविमलव्यावर्णिते हीरयु क्सौभाग्याभिधहीरसूरिचरिते सर्गोऽयमाद्योऽभवत् ॥१३८॥ इति पण्डितश्रीसी(सिं)हविमलगणिशिष्यपं.देवविमलगणिविरचिते हीरसौभाग्यनाम्नि महाकाव्ये प्रथम प्रारम्भे जम्बूद्वीप-भरतक्षेत्र-गूर्जरदेश-प्रह्लादनपुर-महमुन्दपातिसाहिवर्णनो नाम प्रथमः सर्गः ॥ हील० →यं प्रा० । हीरशब्देन युनक्ति इति हीरयुक्तादृशं सौभाग्यमित्यऽभिधा यस्य तावता हीरसौभाग्यकाव्ये अयं प्रत्यक्षलक्षः प्रथमः सर्गः बभूव। किंभूतेन? । स पूर्वोक्ततश्चासौ ब्राम्याः क्रमौ सेवत इत्येवंशीलश्च । तादृशेन देवविमलेन व्यावणिते । स कः? | पं.देवविमलं शिवा इत्याह्वा यस्य तादृशः साधुः । साधुरिति वणिजां नाम । प्राकृते तु साहा, तेषु मघवा । पुनः सौभाग्यदेवी जनयामास । पुनः किंभूतः?। श्रीमत्कोविदशार्दूलसी(सिं)हविमलस्य शिष्याणां मध्ये अग्रणी प्रथमशिष्यत्वेन प्रधानम् ॥१३८।। इति प्रथमः सर्गः ॥ 1. इति नूपवर्णनम् हील०- । →6 एतदन्तर्गतः पाठो हीसुं प्रतौ नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy