SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ३४ 'श्री हीरसुन्दर' महाकाव्यम् हीसुं० विश्वकधन्वी 'शरसान्नृपोऽसौ मा क्वापि कुर्यात्परराजवन्माम् । ४जिजीविषुर्भात इतीव पराजा नभो भ्रमीगोचरयाञ्चकार ॥१३१॥ (१) भुवने पार्थ इवाद्वैतधनुर्धरः । (२) बाणायत्तं बाणहतमित्यर्थः । (३) अन्य राजमिव । यथा अन्यं राजानं रणे बाणायत्तं करोति तथा राजशब्दधारिणं मामपि मा शरसात्करोतु । (४) जीवितुमिच्छुः। (५) चन्द्रः । (६) गोचरं करोति इति गोचरयति, गोचरयति स्म इति गोचरयाञ्चकार, भ्रमण्या गोचरयाञ्चकार, "विधेः कदाचित् भ्रमणीविलासे" इति नैषधे ॥१३१॥ हील. विश्वैः । इति अमुना प्रकारेण भीत: सनराजा चन्द्रः गगनं भ्रम्या भ्रमणस्य गोचरयाञ्चकार। इतीति किम् ?। विश्वेऽद्वितीयधन्वी असौ नृपः परे ये राजानस्तानिव मां राजानमपि क्वापि स्थाने शरसाद्वाणविद्धं मा कुर्यात् ॥१३५॥ हीसुं० 'जम्बालयद्भिर्जलदैरिवोर्ती मदाम्बुभिर्यस्य बभे द्विपेन्दैः । दिग्जैत्रयात्रासु जितैर्दिगीशैदिग्वारणेन्द्रै'रुपदीकृतैः किम् ॥१३२॥ (१) कर्दमयुक्तां कुर्वद्भिः।( २ ) दिशां जयनशीलेषु प्रयाणेषु ।(३) दिग्गजैः ।( ४ ) ढोकितैः ॥१३२॥ हील. जम्बा० । जम्बालान्कुर्वन्तीति जम्बालयन्ति। जम्बालयन्तीति जम्बालयन्तस्तैर्जम्बालयद्भिर्वी कर्दमयुक्तां कुर्वद्भिर्यस्य गजन्दै राजितम् । कैः ?। मदपानीयैः । यथा जलदैर्मेधैः पृथ्वी जम्बालकलिता विधीयते । उत्प्रेक्ष्यते । जितैदिक्पालौंकितैदिग्गजेन्द्रैः ॥१३४।।। हीसुं० १अजय्यवीर्यं निजनिर्जयायोद्यतं यमालोक्य विपक्षलक्षैः । ४स्वक्षत्रवृत्तीरपहाय" भेजे क्षेत्रस्य वृत्तिः "कृषिकैरिवात्र ॥१३३॥ (१) जेतुमशक्यः पराक्रमो यस्य ।(२) स्वपराभवनाय ।(३) प्रादुर्भूतम् । (४) वीरव्यापारं। रणकर्मपारीणतां शस्त्रग्रहणात्मिकां वृत्तिम् । (५) त्यक्त्वा । (६) आजीवम् । (७) कर्षकैः ॥१३३॥ हील० अज० । अजेयपराक्रमम् । पुनरन्यजयायोद्यतं यं भूपं दृष्ट्वा वैरिलक्षैः स्वक्षत्रस्य आजीविका विहाय कृषिकारकैरिव केदारैर्जीवनोपायो भेजेऽङ्गीकृतः ॥१३३।। हीसुं० यस्य द्वेषिनिषूदनव्रतजुष: 'प्रत्यर्थिपृथ्वीभुजां सन्त्रासेन "कलिन्दभूधरगुहाग) किमा सेदुषाम् । स्त्रैणस्याञ्जननीलिमाङ्कितपतद्वाष्पाम्बुपूरैरिव क्ष्मापीठप्रसरद्भिराविरभवत्पाथोजबन्धोः सुता ॥१३४॥ (१) वैरिणामुन्मूलनमेव व्रतभाजः । (२) वैरिनृपाणाम् । (३) अत्याकस्मिकभयेन (४) कलिन्दनामा गिरिस्तस्य कन्दरमध्योत्सङ्गम् । (५) प्राप्तवताम् (६) स्त्रीसमूहस्य (७) कज्जलकालिमकलितनिर्गलद्रोदनजलप्लवैः । (८) भूमण्डले विस्तरद्भिः (९) प्रकटीभूता यमुना ॥१३४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy