________________
प्रथमः सर्गः
३३ (१) प्रथमा: शासनहारिकाः । (२) देवीनामप्सरसां वा । (३) अनुकाराः ॥१२६॥ हील० किम० । यत्र पुरे कमललोचना मनो मदयन्ति । अर्थाधूनां मदयुक्तं कुर्वन्ति । शेषं सुगमम् ॥१२८॥ हीसुं० 'तत्रास्ति भूमान्महमुन्दनामा 'स्थामैकभूर्भूवलयैकवीरः ।
वधूनवोढेव दिने दिने भूः "श्रियं दधौ यत्करपीडितापि ॥१२७॥ (१) पातिसाहिः । (२) बलानामद्वैतस्थानम् । (३) भूमीमण्डलाद्वैतसुभटः । (४) नवपरिणीतेव। (५) लक्ष्मी शोभां च । (६) करो राजदेयांशः । पक्षे आलिङ्गनादिभिः
॥१२७॥ . हील० तत्रा० । तत्र देशे महमुन्दपातिसाहिरस्ति । किंभूतः ?। स्थाम्नां पराक्रमाणामेकाद्वितीया भूः
स्थानम् । यत्करेण देयांशेन पीडिता सती नवोदेव भूः शोभां धत्ते स्म ||१२९।। हीसुं० प्रजां 'द्विजिलैरिव पीड्यमानां कलेविलासैरव'साय विश्वाम् ।
तां "शासितुं दाशरथि: किमात्तजन्मा स्वयं साहिरसौ बभासे ॥१२८॥ (१) दुर्जनैः । (२) ज्ञात्वा । (३) भुवम् । (४) पालयितुम् । (५) रामः । (६) गृहीतजन्मा
॥१२८॥ हील० प्रजां० । पातिसाहि ति स्म । उत्प्रेक्ष्यते । कलिविलासितैविश्वां पृथ्वी पीडयमानां ज्ञात्वा तां पृथ्वी
पालयितुं गृहीतावतारो रामः किमयम् । यथा खलैः पीड्यमानां प्रजां कश्चित्प्रशास्ति ॥१३०|| हीसुं० निस्तूं( स्त्रिं )शमन्थानगमथ्यमानमहाहवक्षीरधिजन्मना यः ।
ववे 'बलिध्वंशी( स )विधानधुर्यो जयश्रिया शत्रुरिवारसुराणाम् ॥१२९॥ (१) खड्ग एव क्षुब्धाचलो मेरुस्तेन मथ्यमान आलोड्यमानो यो महासङ्ग्राम एव दुग्धसमुद्रः
तस्माज्जन्म यस्याः। (२) बलिदैत्यो बलवांश्च तद्घातकरणे गृहीतव्रतः।(३) कृष्णः ॥१२९॥ हील० निस्त्रिंशं खङ्गः स एव मन्थापर्वतो मेरुस्तेन मथ्यमानो यो महासङ्ग्रामसमुद्रस्तस्मादुत्पन्नया जयश्रिया
स वने । किंभूतः सः? । बलिनां बलवतां बले दैत्यस्य वधकरणसमर्थः । उत्प्रेक्ष्यते । दैत्यानां
शत्रुः कृष्णः जयेनोपलक्षितया लक्ष्म्या वियते । बलं-सैन्ये पराक्रमे च ॥१३१।। हीसं० १अश्यामितास्यं 'कमलातिदानैर्जितैः प्रसत्तिप्रणिनीषयास्य ।
४अभैरिवाभ्राद्धवमभ्युपेतैर्यद्भभुजो गन्धगजैविरेजे ॥१३०॥ (१)नकृष्णं कृतं मुखंयेन।(२)जललक्ष्म्योरतिशयविश्रा[ म]णनैः।(३)प्रसादं कर्तुमिच्छया।
(४) मेघैः । (५) गगनात् । (६) आगतैः ॥१३०॥ हील. अश्या० । यस्य राज्ञो गन्धहस्तिभिः शोभितम्। उत्प्रेक्ष्यते। उज्ज्वलवक्त्रं यथा स्यात्तथा। लक्ष्मीदानैजितैः ।
अस्य राज्ञः प्रसादस्य कर्तुमिच्छया गगनादागतैर्वईलैः ॥१३२।। 1. देशाधिराजावरणन इति प्रतिपार्श्वे टि० । 2. प्रजापालनार्थं रामावताशे गृह्यः इति प्रतिपार्श्वे टि० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org