________________
२६
'श्री हीरसुन्दर' महाकाव्यम् (१) अभिलाषुकेण । (२) प्राकारेण । (३) सुवर्णकान्तिना द्रव्येन( ण) प्रकर्षेण भातीति
वा (४) व्यभिचारिणीव । (५) संसर्गकर्तुमिच्छुः ।।९८॥ हील० पिपा० । परिखायामिन्दुबिम्बं प्रतिबिम्बितं पश्यन्ति । तादृशैनरैर्नक्तं तर्कितम् । चन्द्रः तृषितं पुनः
क्षुधितं मृगं प्रति नीरं पायितुं तृणाश्च चारयितुं इहागतः ॥१००।। हीसुं० 1'नभ:परीरम्भणलोलुभैर्यद्वप्रो 'मणिश्रेणिमहः प्ररोहैः ।
घनान्विनाखण्डलधन्वदण्डमकाण्डमाडम्बरयन्निवास्ते ॥१९॥ (१) आकाशालिङ्गनलालसैरभ्रंलिहैरित्यर्थः । (२) रत्नकिरणाङ्करैः । (३) इन्द्रचापचक्रम् ।
(४) असमये (५) प्रकटीकुर्वन् ॥१९॥ हील० नभ० । आकाशे आलिङ्गनलालसै रत्नकिरणैः कृत्वा कोट्टः अकाण्डमिन्द्रधनुरारम्भयन्दृश्यते ॥१०१।। हीसुं० सालोऽदसीयः ससनातनश्री: कपाटपक्षश्च सुवर्ण कायः ।
विगाहमानो गगनं कथं न लभेत तार्थेन (ण) समानभावम् ॥१०॥ (१) एतस्याः सम्बन्धी । (२) सदा विष्णुना च शोभा यस्य । (३) कपाटा एव पक्षा यस्य । (४) स्वर्णेन निर्मित: कायः स्वरूपं भित्तिलक्षणं यस्य । पक्षे गरुडः उच्चैस्त्वेन व्योमस्पृशन्
गरुडपक्षे गत्या गगनं गाहमानः । (५) गरुडेन तुल्यत्वम् ॥१००॥ हील० सालो० । अस्याः कोट्टः । गरुडेन सह साम्यं किं न प्राप्नुयादपि तु प्राप्नोत्येव । किंभूतः
प्राप्नुयात् ?। सह सनातनया नित्यस्थायुकया श्रिया वर्तते वा । सनातनः कृष्णः श्रीश्च ताभ्यां सहितः । "सदा सनानिशं शश्व" दिति हैम्याम् । कपाटावेव तत्तुल्यौ पक्षौ यस्य । तथा सुवर्णस्य
कायोऽङ्गं यस्य । गगनं गाहमानः उच्चस्त्वेन भ्रमणेन च अत एव गरुडसदृशः ॥१०२।।* हीसुं० 'मणीघृणिश्रेणिधुतान्धकारैरभ्रङ्कषैर्यत्कपिशीर्घ्य( र्ष )कौघैः ।
'यानश्वरोदी( दि)त्वरकर्मसाक्षिलक्षेव पूर्दक्षजनैरलक्षि ॥१०१॥ (१) रत्नरुचिराजीनिहतध्वान्तैः । (२) शाश्वता उदयनशीला: सूर्यलक्षा । (३) पण्डितैः ।
(४) ज्ञाताः ॥१०१॥ हील० मणि०। रत्नकान्तिदलितान्धकारैः । पुनर्गगनोल्लेखिभिः । अट्टालकानां उच्चैः कृत्वा या नगरी ।
शाश्वता । उदयनशीलाः कर्मसाक्षिणो भास्करास्तेषां लक्षा यस्यां तादृशीव । पण्डितैदृष्टा ॥१०३॥ हीसुं० 'चन्द्राश्मवेश्मस्मितमुद्वहन्ती 'कटाक्षयन्ती सितकेतनैश्च । युवेव जायां नगरीमिवैतां 'क्रोडीकरोति प्रणयेन वप्रः ॥१०२॥
इति प्राकारः ॥ (१) चन्द्रकान्तमणिनिर्मितगृहाण्येवोज्ज्वलत्वात् हसितम् । (२) कटाक्षान् कुर्वन्ती( ती )व ।
1. पालनपुरगढवर्णन इति प्रतिपार्श्वे टि०। . सदृक्षभावम् हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org