SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः हीसुं० 'दृक्कर्णवेणी 'कलकण्ठकण्ठी बिम्बाधरा ४ सिन्धुरराजयाना । "प्रसूननेत्रा स्तबकस्तनी च भुक्ता वनश्रीरिह गन्धवाहैः ॥ ९५ ॥ इति वनम् ।। (१) भुजङ्गरूपा वेणी यस्या पक्षे तत्तुल्या । ( २ ) कोकिलकण्ठ एव कण्ठो यस्या मध्यपदलोपीसमासः पक्षे तद्वत् । (३) गोह्लक एव तद्वच्च ओष्ठो यस्या । ( ४ ) गजेन्द्राणां तद्वच्च गमनं यस्यां यस्या वा । ( ५ ) पुष्पाण्येव तत्तुल्यानि नयनानि यस्या । (६) गुच्छा एव तत्तुल्या कुचा यस्या । (७) पवनैः गन्धधारिभिर्भोगिजनैः ॥ ९५ ॥ हील. दृक्क० । इह वने वायुभिर्वन श्रीर्भुक्ता । किंच । गन्धं चन्दनादिकं वहन्ति तैर्गन्धवाहैर्युवभिरन्यापि स्त्री भुज्यते । किंभूताः ? भुजङ्गा एव वा भुजङ्गतुल्या वेणी यस्याः । पुनः कोकिलानां कोकिलवद्वा ध्वनिर्यस्यां यस्या वा सा । बिम्बमेव बिम्बसदृशो वा ओष्ठो यस्याः । गजेन्द्राणां गमनं तद्वच्च गतिर्यस्याः । पुष्पमेव तत्समानं च नयनं यस्याः । कुसुमगुच्छौ एव तत्सरूपौ स्तनौ यस्याः सा ॥९७॥ हीसुं० 'स्वर्जिष्णुपुर्याः परिखाप्र' वङ्गरावैरुद'स्यात्मतरङ्गहस्तान् । अदःपुरस्ते कियती विभूतिर्व' स्वोकसारामिति 'गर्हती ॥९६॥ २५ (१) स्वर्गजैत्रायाः । (२) दर्दुरशब्दैः । (३) ऊर्ध्वकृत्य । ( ४ ) अलकाम् । (५) निन्दति ॥९६॥ हील० कम्रे० । वनश्रीः पुरस्य परिखां दूतीं कर्तुमिच्छुः सती प्रतिबिम्बेन स्थिताऽर्थात् प्रतिबिम्बिता । किं कुर्वती ?। कोट्टेन सह सङ्गं कर्तुमिच्छुः । यथाऽसती स्त्री यूना सङ्गं कर्तुकामा कामपि दूत कर्त्तुमिच्छन्ती तद्गृहे समेत्य तिष्ठन्ति । किंभूतेन यूना वप्रेण च । कम्रेण स्वकामुकेन कमनीयेन वा वसुभिर्द्रव्यैर्भातीति वा वसुनां मणीनां प्रभा यत्र ॥९८॥ हील० हीसुं० 'पिपासितं 'रोचकितं च रङ्कं 'वाष्पा ( वाः पा ) यितुं चारयितुं च शष्पान् । चन्द्रः किमागात्परिखे' न्दुबिम्बपश्यैर्व्यमर्शीति जनै रजन्याम् ॥ ९७ ॥ | ( १ ) तृषितम् । (२) क्षुधितम् । ( ३ ) मृगम् । (४) पानीयम् । (५) स्वादयितुम् । (६) नीलतृणान् । (७) चन्द्रप्रतिबिम्बविलोककैः ॥९७॥ स्व०। स्वर्गजैत्र्याः प्रह्लादनपुर्या: खातिका स्वकल्लोलरूपान्हस्तानुद्यम्योर्श्वीकृत्य अलकामिति निन्दति । इति इति किम् ? । अस्या अग्रे ते ऋद्धिर्न किमपि ॥९९॥ हीसुं० कम्रेण वप्रेण वसुप्रभेणासतीव यूना सह "संसिसृक्षुः । दूतीं चिकीर्षुष्प ( : प ) रिखामिवास्याः स्थितानुबिम्बेन निकुञ्जलक्ष्मीः ॥ ९८ ॥ इति परिखा । 1. इति प्रह्लादपुरोपवनम् हील । 2. पालणपुर खाइ वर्णन इति प्रतिपार्श्वे टि० । 3. ० खाप्लवङ्ग० हीमु० । 4. इति परिखा हील० । 5. ०मिवास्य स्थिता० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy