________________
२४.
२५.
२६.
२७.
२८.
२९.
३०.
३१.
३२.
३३.
३४.
३५.
३६.
३७.
३८.
३९.
४०.
४१.
४१.
परिशिष्ट - १
सुधारुचीचन्द्रिकयावदाता, शृङ्गावलीवाञ्जनभूधरस्य ॥१॥ क्रीडत्तुरङ्गद्वीपपद्मनेत्रा, यस्मिन्सरस्यः श्रियमुद्वहन्ते । उच्चैःश्रवः स्वद्विरदाप्सरस्का, मन्ये वयस्यो हरिवारिराशेः ॥ ३९ ॥ मुक्तायितप्रान्तविलग्नपाथः कणैर्बभे स्मेरसहस्रपत्रैः ॥ पद्माकराणां ॥४०॥
यस्मिन्विलुभ्यन्मधुपानुषङ्गै- र्हेमारविन्दैर्विकचैर्विलेसे । कासारलक्ष्म्या स्फुरदिन्द्रनील- मणीविमिश्राभरणैरिवैतैः ॥४१॥ सृजन्ति गीतीरिह शालिगोप्यः, जगत्त्रयीनिर्जयनार्जिताभिः । ज[ ? ] ..........त् [ ? ], कीर्तीरिव श्रीतनयावनीन्दोः ॥४२॥ क्वचिच्चुकूजे० । केदारलक्ष्म्या इव बन्दिवृन्द-वृन्दारकैः संस्तवमुच्चरद्भिः ||४३|| कैदारिकं क्वापि नदोपकण्ठे, शालिव्रजैर्मञ्जरितैश्चकासे । प्रिया इवाम्भोनिधिमेखलायाः, रोमावली नाभिसवेशदेशे ॥१॥ कैदार्यमुज्जृम्भितशालिशालि, यस्मिन्नशोभिष्ट चरन्मरालैः । सन्दृब्धमन्तर्नवमुक्तिकाभिः क्षितिश्रिया नीलमिवान्तरीयम् ॥१॥ आभीरपल्लीषु सुखं सखीभिः, सगीतहल्लीसखखेलिनीभिः । गोपालबालाभिरभासि यस्मिन्, स्मरावनीन्दाविव नर्त्तकीभिः ॥ १ ॥ कुत्रापि दम्यैरनुगम्यमानाः, कैलासकेलीशिखरायमाणाः । सुधाभुजो द्रोणदुधाश्चरन्ति मूर्त्ता समाज्ञा इव [म]ण्डलस्य ॥१॥ गोपालबालैर्दिविषत्कुमारै-रिवानुयाताः सुरभीसमूहाः । दिवोवशेषैः सुकृतैः सुराणा मिवावनौ कामदुघाः समीयुः ॥१॥ ब्रह्माण्डभाण्डोपरिभित्तिभाग-प्रोत्तानयानोद्भवदर्त्तिभाजः । स्वः सौरभेयीनिवहा इवोर्वी, चरिष्णवो यत्र विभान्ति गावः ॥ १ ॥ यूनो रिरंसोपगतान्सकान्तान् किं स्वागतं हंसरुतैः सृजन्त्यः । तरङ्गहस्तस्थितवारिजैर्वा, किमर्थमस्मिन्प्रणयन्ति नद्यः ॥५०॥ कपोलपालीस्फुरदेणनाभी - पत्राङ्कितैश्च द्विजचन्द्रिकायैः । क्रीडन्मृगाक्षीवदनैः सहस्त्र - चन्द्रेव यस्मिन्नदिनी दिदीपे ॥५०॥ विधोधिया यत्र सरित्प्रवाहै-र्लीनालिफुल्लद्दलपुण्डरीकम् । प्रेक्ष्याभितो मुग्धचकोरडिम्भा, भ्रमन्ति पीयूष पिपासयेव ॥५२॥ मुक्तालताङ्केव निजोपकण्ठ-श्रेणीभवत्सारसमालिकाभिः । सि(शि) ञ्जानमञ्जीरवतीव रावैः, स्वकूलकूजत्कलहंसिकानाम् ॥५२॥ भ्राम्यद्विरेफस्मितवारिजेन प्रफुल्ललोलन्नयनाननेव । रथाङ्गयुग्मेन गलन्निवाल - पयोधर द्वन्द्वमिवोद्वहन्ती ॥५३॥ रन्तुं वसन्तेन समं प्रियेण, गाङ्गेयगेहैरिव कुञ्जलक्ष्म्याः ॥५६॥ वसन्तकान्तेन निकुञ्जलक्ष्म्या, विलासहासा इव भान्ति कासाः | यद्वा पराभूतमरुद्वनाया - स्तस्या जयाङ्का इव रोमगुच्छाः ॥५७॥
Jain Education International
For Private & Personal Use Only
३०७
www.jainelibrary.org