________________
३०८
'श्री हीरसुन्दर' महाकाव्यम् ४२. निश्वानरावं तुमुलैरलीनां शाखाशयालम्बित( सून )पुष्पशस्त्रा ।
स्मरस्य विश्वस्य जयाय यस्मि-ननीकिनी वाजनि शाखिलेखाः ॥५५॥ यदभाविनं हीरकमारराजं स्वस्वप्रसनादिनभोपदाभिः । प्रभूय शुश्रूषयितुं किमत्र सर्वर्त्तवः केलिवने वसन्ति ॥५४॥ प्रसननेत्रा कलकण्ठकण्ठी बिम्बाधरा मत्तगजेन्द्रयाना । भुजङ्गवेणी स्तबकस्तनी च भुक्ता वनश्रीरिह गन्धवाहैः ॥५३। स्वःकाननश्रीसखितां वहन्त्याः स्वविभ्रमैश्चैत्ररथं हसन्त्याः । आरामलक्ष्म्या मुचकुन्दवृन्द-दम्भादिवास्मिन्दशनाः स्फुरन्ति ॥६३॥ स्मरावनीजन्मशिखावनद्धा यस्मिन्लसन्ति स्म विलासदोलाः । रन्तुं रतिप्रीतिनितम्बिनीभ्यां वितेनिरे चित्तभुवेव यूनाम् ॥६२॥ लीलायमानाः सहकारशाखा-शिखान्तरे केलिशुकाः क्वणन्ति । न व्यानुषले मधुनेव भ; वनश्रिया मङ्गलगर्भगीतिः ॥६१॥ यस्मिन्प्रवालप्रबलायुधानां संवर्मितानां स्मितताच्छलेन ।
महीरुहां स्व? [ मतुल्य ? ]काना-मदुन्दु भीयन्त ] पिकाः क्व[ णन्तः] ॥६४॥ ४९. तत्रास्ति पौलस्त्यपुरायमाणं, प्रह्लादनं नाम पुरे प्रधानम् ।
निःशेषनृवृद्धितयोजितस्य, श्रीगूर्जरस्येव निधानकुम्भः ॥१॥ ४९. हिरण्मयं सूरिकुलाभिरामं, विलासिरामं पुरुषोत्तमश्रि ।
श्रीनन्दनानन्दि समीक्ष्य तार्क्ष्य-पुरं मुरारेरिव यच्चकास्ति ॥२॥ भुजङ्गमानां च सुधाशनानां, निवासयोः सारदलैर्गृहीतैः । व्यधायि यद्वारिजनन्दनेन, न चेत्किमाभ्यामतिरिच्यते तत् ॥३॥ नानामणीकर्मविनिर्मिताना-मभ्रंलिहानामिह मन्दिराणाम् । महानिशायां शिखरान्तरेषु, शीतांशुबिम्बं कलशायते स्म ॥४॥ दण्डायते च त्रिदशाध्वदण्डा, ध्वजायते सिद्धधुनीप्रवाहः । अकिङ्किणीयन्त पुनस्तदम्भो-विलासि हंस्यो मधुरं ध्वनन्त्यः ॥५॥ युग्मम् ॥ अखेलि खे मारुतवेगवेल्ल-द्यद्वैजयन्ती पटपल्ल [ वोधैः ।। सह [ स्त्र ]कायैरिव कौतुकाद्य-द्दिदृक्षुभिर्विष्णुपदीप्रवाहैः ॥६॥ रोमाञ्चिता वीचिचयैर्दुलीनां स्वनैः स चाटुः शरैः स्मिताक्षी । व्यालोकि लोकैः परिखानिलेन, चलीकृता वारविलासिनीव ॥६॥ अयं पयः पाययितुं किमस्या-मागान्मृगं चारयितुं च शष्पान् । बिम्बं विधोर्यत्परिखाजलान्त-फ्लोक्य लोकैरिति कल्प्यते स्म ॥७॥ यद् त् ) खातिवात( तेन) लुलत्तरङ्ग-हस्तादुदस्य प्लव[ न स्वनेन । एतत्पुरस्ते कियती विभूति-र्वस्वोकसारामिति निन्दतीव ॥८॥ मातङ्गिनी पुष्पवती च नित्यं, कृतानुषङ्गा मधुपैरितीह । निन्दाछिदे यत्परिखाम्भसीव, बिम्बेन दिव्यं कुरुते वनश्रीः ॥९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org