SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः १९ खाज्जगत्समक्षस्वविजयकरणजातासातात्तटाकस्यागाधजलमध्ये दत्ता झंपा सम्पातपाटवं यया तादृशीन्द्रनगरी अमरावतीव दृश्यते ॥७२।। हीसुं० 'कपालिमित्रं त्रिशिराः कुबेर: पिशाचकी पुण्यजनः पतिर्मे । . "तन्नाभिगम्यः किमिती त्वरीव त्यक्त्वा तमागादलकेयमुाम् ॥७१॥ (१) योगिविशेषः ईश्वरश्च । (२) त्रिमस्तकः कुत्सितवपुः । (३) पिशाचा: सन्त्यस्येति राक्षसो यक्षश्च (४) तस्मादभिगन्तुं न अर्हः । (५) व्यभिचारिणी ॥७१।। हील० कपा०। यत्पुरं भातीति सम्बन्धः । कपालिनो रुद्रस्य योगिनो वा मित्रम् । पुनस्त्रीणि शिरांसि यस्य । कुत्सितं बेरं शरीरं यस्य । पिशाचा विद्यते यस्य । पुनः राक्षसः मे ईशस्तेन न सेव्यः । इति कारणात्तं धनदं त्यक्त्वा ऊर्ध्या अलका आगता ॥७३।। हीसुं० रामायुतैस्ता_शतै रमाभिः "प्रद्युम्नकोट्या शतशूरवंशैः । जितेन कृष्णेन पुरी स्वकीयोपदीकृतेयं किमु मण्डलस्य ॥७२॥ इति 'पुरवर्णनं समुदायेन । (१) स्त्रीर्बलभद्रश्च । (२) दशसहस्त्राणि अश्वो गरुडश्च । (३) लक्ष्मीभिः । (४) प्रकृष्टद्युम्नं दव्यं कामश्च । (५) शतसंख्या शूराणां वीराणां शूरनाम्नो राज्ञश्च । वशाः [?] । (६)द्वारिका ॥७२॥ हील० रामा०। पुरं भातीति सम्बन्धः । किमु ? कृष्णेन । जितेन । निजपूौंकिता । रामाणां अङ्गनानां अयुतैर्दशसहस्त्रीभिस्तत्र तु एक एव बलभद्रः । तााणां वाजिनां शतैस्तत्र एक एव गरुडः । पुना रमाभिः सम्पद्भिः । तत्रैका लक्ष्मीः । प्रकृष्टानां द्युम्नानां द्रव्याणां कोट्या । तत्र एक एव मदनः । शतैः शूराणां सुभटानां अन्वयैः । तत्र तु शूरनामा यादवपूर्वजहरिवंश्यनृपः । कृष्णस्य तु एते सर्वेऽप्येकैके इति पराजयः ॥७४॥ हीसुं० अथ पृथकवर्णनम्-2 प्रह्लादनाच्चन्द्र इवाङ्गभाजामन्वर्थनामाजनि यो जगत्याम् । प्रह्लादनः पार्श्वपतिः स तत्र प्रह्लादनाह्वे व्यलसद्विहारे ॥७३॥ (१) आनन्दोत्पादनात् । (२) सत्यार्थः (३) प्रह्लादननामप्रासादे ॥७३॥ हील० प्रह्लाद०। प्रह्लादनः पार्श्वनाथ: शोभते स्म । शेषं सुगमम् ।७५।। हीसं० यदीयमूर्तिर्निरमापि भक्त्या 'प्रह्लादनाम्ना पुरि राणकेन । तस्याप्यजस्येव नृपस्य पार्यो *गदापहः स्नात्रजलेन 'जज्ञे ॥७४॥ 1. इति समुदयेन प्रह्लादनपुरवर्णनम् हील० । 2. विहारवर्णनम् इति प्रति पार्श्वे टि० । अथ प्रह्लादनपार्श्वनाथवर्णनम् हील। 3. प्यामापहः स्नान० हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy