SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ __श्री हीरसुन्दर' महाकाव्यम् (१) प्रह्लादननामराणकेन । (२) प्रह्लादनराणकस्य । (३) रोगनाशकः । (४) जातः । ॥७४॥ . हील० यदी० । प्रह्लादराणकेन प्रह्लादनपार्श्वबिम्बं कारितम् । सोऽपि स्नात्राभिषेकजलेन भस्मकुष्टापहो जातः । यथा अजयराज्ञः दशरथपितुः सप्तोत्तरशतरोगापहन्ता जातः तद्वत् ।।*७६।। हीसुं० प्रदेहि न: 'साक्षरतामबाह्यां बाह्यामिवाख्यातुमितीव पार्वं । भोगैनिदैष्प( जैः प)ञ्चशतीमिता'भिः संसेव्यते 'विश्वलयुक्पुरीभिः ॥७५।। (१) ज्ञानिताम् । (२) आन्तराम् । (३) वक्तुम् । (४) पूजादिभिः । (५) विश्वलपुरीनाम नाणकं ‘पञ्चशती भोगो जिनस्य प्रह्लादविहारे' इति श्रुतिः ॥५॥ हील० प्रदेहि० । य: पार्श्व: विशलपुरी नाणकैः पञ्चशतैः कृत्वा भोगैः सेव्यते । इवोत्प्रेक्ष्यते । नः अस्माकं बाह्यामिव अबाह्यां प्रदेहि । इति वक्तुम् ॥७७॥ हीसुं० 'स्वचोक्षभावेन जिता जिनेन निर्मातुकामा इव रेतत्प्रसत्तिम् । यत्राक्षता मूढकसंमिता यच्चैत्येऽनिशं प्रागुपजग्मिवांसः ॥७६॥ (१) निजनिर्मलाशयत्वेन । (२) कर्तुमनसः । (३) जिनस्य प्रसादम् । (४) मूढकप्रमाणाः । (५) अहर्निशम् अक्षता आयान्ति प्रह्लादविहारे इति श्रुतिः । (६) आगत्तुं( च्छन्ति) स्म ॥७६॥ हील. स्वचो० । यस्मिन्नगरे पार्श्वचैत्ये मूढकप्रमाणा अक्षता निस्तुषा:- कलमा आगच्छन्तो अभूवन् । उत्प्रेक्ष्यते । जिनेनात्मीयनिर्मलाशयत्वेन जिताः सन्तस्तत्सेवां निष्पादयितुकामा इव ॥७८।। हीसुं० 'उद्वेगभावं स्वमिवापकर्तुं श्रीपार्श्वभर्तुः परिशीलनाभिः। चैत्ये कलासंख्यमणप्रमाणान्यस्मिन्पुन: पूगफलान्युपेयुः ॥७७॥ (१) विषादितां पूगत्वं च । (२) सञ्चाभिः । (३) षोडशमानः । (४) प्रह्लादविहारे षोडशमणप्रमाणानि क्रमुकफलानि नित्यमायान्ति स्मेति श्रुतिः । हील० उद्धे० । अस्मिंश्चैत्ये षोडशमणप्रमाणानि पूगफलान्यागच्छन्ति स्म । उत्प्रेक्ष्यते । पार्श्वनाथस्य सेवाभिनि उद्वेगत्वं निर्वेदत्वं निराकर्तुमिव । “पूगे क्रमुकगूवाको तस्योद्वेगं पुनः फलम्" ॥७९॥ हीसुं० अशीतिरस्मिन्नधिकाश्चतुभिर्महेभ्यमुरव्याः श्रितशीकरीकाः । सुरा विमानैरिव याप्ययानैः स्मागत्य श्रृण्वन्ति गिरं गुरूणाम् ॥७८॥ __ इति प्रह्लादविहारः । (१) चतुराशीतिमहेभ्याः । (२) श्रीकरिकलिता: (३) शिबिकारूढाः पार्श्व प्रणिपत्य 1. भिर्यः सेव्यते हीमु० । 2. नित्यं कला. हीमु० । 3. याप्ययानं-शिबिका । हीमु० तु याप्यमानैः इति अशुद्धः पाठो दृश्यते । 4. इति प्रह्लादनपार्श्वनाथ: हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy