________________
अष्टमः सर्गः ॥
२९३
(५) जगत ईप्सितदानेन पोषकस्य कृष्णस्य । (६) चरणे । (७) विष्णुपदे विलग्य । (८) भालश्रियम् । ( ९ ) याचति । (१०) बालक इव ॥१५१॥
हील० बालश्चन्द्रस्तद्भालशोभां दृष्ट्वा विष्णुपदे विलग्य तां मार्गयतीव ॥ १५५ ॥ हीसुं० 'यद्भाललक्ष्म्या' धरितोऽर्द्धचन्द्रस्तत्साम्यमिच्छन्व' रुणालयस्थाम् । अभीष्टदां "कामदुघां प्रतीचीमस्तच्छलाद्याति किमा रिरात्सुः ॥ १५२॥'
(१) देवी ललाटलक्ष्म्या । ( २ ) धिक्कृतः । (३) देवीभालशोभासादृश्यम् । ( ४ ) वरुणगृहवासिनीम् । (५) कामधेनुम्। “क्रतोः कृते जाग्रति वेत्ति कः कवि प्रभोरपां वेश्मनि कामधेनवः” इति नैषधे । (६) पश्चिमदिश्या (शा)म् । (७) आराद्धुमिच्छुः ॥ १५२ ॥ हील० अर्धचन्द्रोऽस्तच्छलात्प्रतीचीं याति । उत्प्रेक्ष्यते । वरुणगृहवासिनीं कामधेनुमाराधयितुमिच्छुः ॥१५६॥ हीसुं० 'यदाननश्रीजितम 'ब्जबन्धोः पद्मं करक्रोड इवैत्य बन्धोः ।
'निर्वेद' मावेदयते स्वमेतत्पुरो भ्रमद्भृङ्गगणक्वणेन ॥१५३॥
( १ ) देवीवदनलक्ष्मीपरिभूतम् । ( २ ) सूर्यस्य । ( ३ ) हस्तोत्सङ्गम् । (४) आगत्य । (५) पराभवोद्भूतखेदम् । (६) कथयति । (७) भ्रमरगुञ्जितेन ॥ १५३ ॥ हील० मुखश्रिया जितं पद्मं मित्रस्य सूर्यस्य स्वं दुःखं वक्ति [ स्म ] ॥१५७॥ हीसुं० 'वक्त्रं त्रिदश्या विजितात्मदर्शनिशामणि प्रेक्ष्य हिरण्यगर्भः ।
सृष्टिं "सिसृक्षुः कि'मदोऽनुरूपां विनिर्मिमीतेऽम्बुजहस्तलेखम् ॥१५४॥
(१) मुखम् । (२) शोभाभिभूतदर्पणपार्वणेन्दुम् । ( ३ ) धाता । ( ४ ) कर्त्तुमिच्छुः । ( ५ ) अस्य देवीवदनस्यानुरूपां तुल्याम् । “अदःसमित्संमुखवैरियौवतत्रुटद्भुजा कम्बुमृणालहारिणी" इति नैषधे । ( ६ ) करोति । ( ७ ) कमलानां हस्तलेखम् । 'हस्तोलक' इति प्रसिद्धः ॥१५४॥ हील० जितम (मु) कुर चन्द्रं मुखं दृष्ट्वा विधिस्तत्सदृशरूपं शिक्षितुम् । किमुत्प्रेक्ष्यते । कमलैर्हस्तलेखम् । लोकोक्त्या 'हथोलो' । अकरोत् ॥१५८॥
1
हीसुं० मन्ये 'कुमुब्दन्धु रिदंमृगाङ्कमुखीमुखीभूय सुखीबभूव ।
* नियन्त्र्य यत्तेन नमः ' स्वदस्युं 'प्राक्षेपि पृष्ठे 'स्फुटकेशकायः ॥ १५५ ॥२
(१) चन्द्रः । (२) इयं चासौ मृगाङ्कमुखी च । तस्या मुखं भूत्वा । " इदं नृप - प्रार्थिभिरुज्झितोऽर्थिभिरिति नैषधे । ( ३ ) निश्चिन्तो जातः । (४) बद्ध्वा । (५) यस्मात्कारणात् । ( ६ ) राहुः निजशत्रुः । (७) प्रक्षिप्तः । ( ८ ) प्रकटं कुन्तलरूपवपुर्यस्य
।। १५५ ॥
1. इति दे [ वीभालम् ] हील० । 2. इति वदनम् हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org