SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २९४ 'श्री हीरसुन्दर' महाकाव्यम् हील० [चन्द्र] एतस्या मुखरूपो भूत्वा सुखी जातः । यद्यस्मात्तेन बद्ध्वा राहुः पृष्ठभागे स्वरिपुत्वा त्प्रक्षिप्तः । बद्ध्वा क्षिप्तः ।।१५९।। हीसं० अहो 'महीयान्महिमा 'सुपर्बसारङ्गचक्षुश्चिकुरच्छटायाः । निर्जित्य यस्मात्प'शुनापि पश्चादचीकर द्या 'चमरान्प्रतीपान् ॥१५६॥ (१) अहो इत्याश्चर्ये । यथा नैषधे - "अहो अहोभिर्महिमा हिमागमे" इति । (२) अतिशायी। (३) माहात्म्यम् । (४) देवीकुन्तलकलापस्य ।" तटान्तविश्रान्तरङ्गमच्छटे''ति नैषधे । छटा श्रे( श्रो)णीति तद्वृत्तिः । (५) चमरगवा कर्ता(ा) । तिर्यङ्मात्रः पशुरुच्यते । तया नैषधेऽपि पशुनाप्यपुरस्कृतेन तत्तुलनामिच्छतु चामरेण कः" ।(६) कारयति स्म । (७) या देवी । (८) कचच्छटाः । (९) स्वस्पद्धिनः ॥१५६॥ हील० [अहो। देवीकेश]पाशस्य महान्महिमा विद्यते । यदसौ देवी पशूनां पृष्ठभागे चमरान् बध्नाति स्म ॥१६०॥ हीसुं० स्पर्धां विधत्ते 'सुमनःसुकेशीकेशच्छटाभिर्यदसौ 'कलापः । ३अनौचितीयं तमितीव 'केकी 'जहाति कोपादपि पक्षभूतम् ॥१५७॥ (१) शासनसुराङ्गनाकेशश्रेणिभिः । (२) केकिपिच्छम् । (३) न योग्यता । “सानौचिती वेतसि नश्चकास्तु" इति नैषधे । (४) मयूरः । (५) त्यजति । (६) पक्षः सहायः । पिच्छम् । "पक्षो मासाद्धे पिच्छे विरोधे देहाङ्गे सहाये राजकुञ्जरे" इत्यनेकार्थः ॥१५७॥ हील० असौ कलापः देव्याः केशपाशेन सह स्पर्धां धत्ते । इदमनुचितम् । इति क्रुधा पक्षः-सहायष्पि(: पि)च्छं च तत्समानमपि केकी त्यजति ।।१६१।। हील०→श्रीस्पर्द्धया यच्चिकुरान्विजेतुं व्यवस्यमानान्स्वमवेत्य बर्हः । त्रासात्प्रणश्यन्निव नीलकण्ठः पृष्ठे प्रविष्टः शरणाभिलाषी ॥१६२॥इति केशपाशः। कलापो मयूरं शरणीचकार ॥१६२।। हीसुं० 'सीमन्तदण्ड: 'सुरपद्मदृष्टे रुन्मादयामास मनांसि यूनाम् । "सहावरोधश्चरतः स्मरस्य व्यक्तीभवन्ती पदवी किमे षा ॥१५८॥ (१) केशेषु वर्त्मदण्डाकृतित्वाद्दण्डः । (२) देव्याः । (३) उन्मादश्चित्तविप्लवस्तद्युक्तानि करोति । (४) तरुणानाम् (५) स्त्रीभिः सार्द्धम् । अवरोधशब्देनात्र पत्नीग्रहणम् । यथा नैषधे स्त्रीवर्णने-"स्मरावरोधभ्रममावहन्तीति । (६) प्रकटा जायमाना। (७) जनसञ्चारणामार्गोऽपि मार्गः स्यात् । (८) एषा प्रत्यक्षलक्ष्यमाना( णा) सीमन्तरूपा ॥ १५८ ॥ हील. सीमन्तदण्डो वयस्थानां मनांसि उन्मादयामास । उत्प्रेक्ष्यते । अन्तःपुरेण सह सञ्चरतः स्मरस्य स्फुटो मार्गः । यतो घनजलसञ्चारेण मार्गः स्यादिति ॥१६३।। Kएतदन्तर्गतः पाठो हीसुंप्रतौ नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy