________________
२८८
'श्री हीरसुन्दर' महाकाव्यम् हीसुं० 'स्फुरन्महोगोचरिताखिलाशौ २भूपाविवास्या भवतः स्म नेत्रे ।।
अधारिषातां कथमा तपत्रे 'पक्ष्मोपधे मूर्द्धनि चेन्न ताभ्याम् ॥१२९॥ (१) दीप्यमानद्युतिभिर्लक्षीकृत समग्रदिशौ । तेजसां सर्वत्र व्यापित्वात् । पक्षे- प्रसरत्प्रतापैर्विषयी[कृतसमस्तहरितौ । (२) राजानौ । (३) धृते । (४) छत्रे । (५) नेत्ररोमच्छलात् । (६)
मस्तके । (७) नेत्राभ्याम् ॥१२९॥ हील. दीप्रेण महसा तेजसा प्रतापेन वा दृष्टा दिशो याभ्यां तौ(ते) नेत्रौ(नेत्रे) भूपाविव जातौ । अन् या
नेत्ररोमदम्भाच्छत्रे कथं धृते ।।१३३।।* हीसुं० १असूयया स्वीयपराभविष्णुं दृशं यदीयां प्रविभाव्य भृङ्गाः ।
स्पर्धी न दध्मोऽथ वयं कदाचिदितीव चक्रुः कज कोशपानम् ॥१३०॥ (१) ईर्घ्यया । (२) निजस्य पराभवनशीलाम् । (३) दृष्ट्वा । (४) न वदामः । (५)
अद्यतः प्रारभ्य । (६) शपथम् ॥१३०॥ हील० असू० । पराभविष्णुं यदृष्टिं दृष्ट्वा भ्रमराः कोशपानं चक्रुः ॥१३४।। हीसुं० 'सारैर्दलैः शासनदेवतायाः प्रणीय नेत्रे किमु पद्मयोनिः ।
"शेषैरशेषैर्दलिकैर कार्षीत्पुनश्चकोराम्बुजखञ्जरीटान् ॥१३१॥ (१) विशिष्टैर्वस्तुभिः । (२) कृत्वा । (३) धाता । (४) अवशिष्टैः । (५) कृतवान् । (६)
कमलखञ्जनान् ॥१३१॥ हील. धाता सारदलैर्नेत्रे निष्पाद्य शेषैर्दलैश्चकोरादींश्चकार ॥१३५।। हीसुं० 'जेया त्रिलोक्येव शरैस्त्रिभिस्तत्शेषा 'द्विकाण्डी "किमिति स्मरेण ।
प्रत्यक्ताथ सा “पद्मभुवा कृतार्थीकृतेव देव्या नयने प्रणीय ॥१३२॥ (१) जेतुं योग्या । (२) त्रिसङ्ख्यैरेव बाणैः । (३) अवशिष्टा उद्धृता । (४) बाणद्वयी । (५) किमिति न किञ्चित्कार्या इति हेतोः । (६) उज्झिता । (७) पश्चात्मदनत्यजनानन्तरम् ।
(८) धात्रा । (८) सफलीकृता । (१०) कृत्वा ॥१३२॥ हील० त्रिभिः शरैस्त्रिलोकी एव जेया । ततो द्वयोः काण्डयोर्बाणयोः समाहारो द्विकाण्डी स्मरेणोज्झिता सती
धात्रा देवीनेत्रे निष्पाद्य सत्या कृता ॥१३६।। हीसुं० श्रिया सुधाभु-क्परमाणुमध्या-चक्षुर्विभूषामनुक कामैः ।।
गुप्तं क्वचित्प्रा वृषि 'खञ्जरीटैराराध्यते मन्त्र इवातदत्तः ॥१३३॥ (१) स्वशोभया । (२) देवाङ्गनानयनविभवम् । “अध्यापयामः परमाणुमध्या" इति नैषधे ।
(३) छन्नम् । (४) वर्षाकाले । (५) खञ्जनपक्षिभिः । (६) इष्टविश्राणितः ॥१३३॥ हील० शोभया चक्षुःसदृशो भवितुं खञ्जरीटैमन्त्र आराध्यते ॥१३७॥ 1. नेत्री हीमु० । 2. ०धाभाक्पर० हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org