SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ हील० प्रथमः सर्ग ब्र०। यत्र गावः शोभन्ते । उत्प्रेक्ष्यते । स्वर्धेनवः । किंभूताः स्वर्धेनवः ? ब्रह्मा [ण्ड ] भाण्डस्योपरितनभित्तिभागे अम्बुप्रतिबिम्बवदूर्ध्वपादमधोवपुरेवंविधं यद्गमनं तेनोद्भवन्तीं अति पीडां भजन्तीति । तादृशः सत्यः भूमौ आगत्य सुखं चरन्त्यः गच्छन्त्यः । 'चर गतिभक्षणयो' रिति धातोर्गमनभक्षणार्थत्वात् ॥६४॥ हीसुं० ' यस्मिंश्च राजर्षियशोम रन्दवृन्दारविन्दैः पुटभेदनान्तः । द्वात्रिंशता श्री ऋषभादिसार्वचैत्यैर्विलेसे ' दशनैरिवास्ये ॥६३॥ (१) कुमारपाल ( २ ) मकरन्दः ॥ ( ३ ) अणहिल्लपत्तनमध्ये ( ४ ) ऋषभप्रमुखतीर्थकृद्वात्रिंशद्विहारै: । (५) दन्तद्वात्रिंशिकानामभिः ॥६३॥ हील० यस्मिन्देशे । पत्तनान्त: राजर्षिनिर्मितैर्द्वात्रिंशत्सङ्ख्याकैर्जिनचेत्यैर्विलसितम् । इवोत्प्रेक्ष्यते । वदने रदनैः ॥६५॥ हीसुं० श्रीस्त (स्थ ) म्भतीर्थं 'पुट' भेदनं च यत्रोभयत्र स्फुरतः पुरे द्वे । अहम्मदावादपुराननायाः किं कुण्डले गूर्ज्जरदेशलक्ष्म्याः ॥६४॥ ( १ ) पत्तनम् । ( २ ) द्वयोः पार्श्वयोः ॥६४॥ हील० श्रीस्थं । यत्र देशे उभयोः पार्श्वयोः द्वे पुरे स्फुरतः शोभते । एकं स्तंभतीर्थं अन्यच्च पत्तनम् । किमुत्प्रेक्ष्यते । अहम्मदावादपुरमेवाननं यस्या गूर्जरदेशलक्ष्म्याः किं कर्णाभरणे ॥ ६६ ॥ हीसुं० 'विभूतिभाक्का'लभिदङ्क दुर्गः क्रीडत्कुमारः सकलाधरश्च' । 'अहीन भूषः स वृषः सु' पर्व्वसरस्वती भृद्भव' वद्बभौ यः ॥ ६५ ॥ १७ ( १ ) लक्ष्मीर्भस्म च । ( २ ) कलियुगं दैत्यश्च । (३) उत्सङ्गे समीपे च पार्वती गिरिशिखरस्थप्राकारश्च । ( ४ ) बालक: कार्त्तिकेयश्च । ( ५ ) शिल्पिनः सूत्रधारादयः शशिमश्च( ना च) तैः सहितः ( ६ ) सम्पूर्णा शेषनागेन च शोभा यस्य । (७) धम्र्मो वृषभश्च । (८) शोभनानि पर्युषणा - दीपालिकादिपर्वाणि सरस्वती नाम्नी नदी च पक्षे गङ्गा । ( ९ ) ईश्वर इव ॥६५॥ हील० विभु० । विभूर्ति सम्पदं भस्म वा भजतीति । कालं कलिकालं, कालनामानं दैत्यं वा भिनत्ति । अङ्के दुर्गः कोट्टः पार्वती वा यस्य । तथा क्रीडन्तः कुमाराः कुमारः स्वामिकार्त्तिको वा यत्र । सह कलाधरैः स्त्रीपुरुषैः चन्द्रेण वा वर्त्तते सः । तथा न हीना भूषा वा अहीनामिनः शेषः स एव भूषा यस्य । तथा सह वृषेण धर्मेण वा बलीवर्देन वर्त्तते । तथा सुशोभनानि पर्वाणि सरस्वतीनाम्नीं नदीं अथवा देवनदीं गङ्गां बिभर्त्ति इति । एतादृशो यो देश: शंकरेण सह साम्यं करोति ॥ ६७|| हीसुं० 'तत्रैकदेशे' वपुषीव वक्त्रः श्रीधानधाराभिधमण्डलोऽस्ति । `स्वर्लोकजैत्रैर्विभवैरिव स्वैरधः कृतो येन भुजङ्गलोकः ॥ ६६ ॥ इति देशवर्णनम् ॥ 1. पटणदेसवर्णन इति प्रतिपार्श्वे टि० । 2. पटण इति प्रतिपार्श्वे टि० । 3. यत्रैक० हीमु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy