SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ १६ 'श्री हीरसुन्दर' महाकाव्यम् हील० कै०। क्वापि झरसमीपे । समञ्जरीका शालयो यत्र । तादृशं कैदारिकं शोभते स्म । .उत्प्रेक्ष्यते । देशलक्ष्म्याः , नाभिना विभासिमध्यप्रदेशे रोमश्रेणीव ॥६०॥ हीसुं० 'उत्तालतालं करतालिकाभिः सजन्ति गीतीरिह रेशालिगोप्यः । *श्रिया "समग्रान्विषयान्विजित्य कीर्तीः स्थितानामिव “गूजराणाम् ॥५९॥ इति केदाराः ॥ (१) शीघ्रं तालो यत्र । (२) हस्तद्वयवादनैः । (३) शालिरक्षिकाः (४) स्ववैभवेन । (५) समस्तदेशान् (६) परिभूय । (७) सुखं स्थितानाम् । (८) गूर्जराणां यशांसीव ॥५९॥ हील. उत्ता०। उत्तालस्त्वरितवादिनस्ताला यत्रैव स्यात्तथा क्रियाविशेषणम् । तालिकाभिः शालिरक्षिका गीतिभिर्गायन्ति । उत्प्रेक्ष्यते । सम[स्त] प्रदेशान्निजित्यैकस्थानस्थायुकानां गूर्जराणां गूर्जरस्य वा । "देशानामग्रे बहुत्वमेव वाच्यम्" । कीर्तीर्यशासीव गायन्तीव ॥६१।। हीसुं० 'कुत्रापि 'दम्यैरनुगम्यमानाः 'सरिद्वरायाः सखितां दधाना । श्यद्गोचरे "दोणदुघाश्चरन्ति मूर्ताः "समाज्ञा इव मण्डलस्य ॥६०॥ (१) वत्सतरैः प्रौढतर्णकैः । (२) गङ्गायाः । (३) यद्देशस्य गवां चरणस्थाने । (४) दोणप्रमाणं दुग्धं यासाम् । (५) कीर्त्तय इव । (६) गूर्जरदेशस्य ॥६०॥ कुत्रा० । कुत्रापि स्थाने वत्सतरैः सेव्यमानाः । पुनः श्वैत्याद्गङ्गासादृश्यं दधानाः । पुनर्दोणपरिमाणं दुग्धमासां ता गावो गवां चरणस्थाने चरन्ति । इवोत्प्रेक्ष्यते । गूर्जरस्य मूर्तिमत्यः कीर्तयः ॥६२।। हीसुं० गावः क्वचिद्भान्ति 'सुधामुधाकृत्पयःस्रवन्त्यः प्रविभाव्य वत्सान् । यदीर्घ्यया निष्ठितनाकभाग्यैः स्वर्धेनवः क्षोणिमिवावतीर्णाः ॥६१॥ (१) अमृताधरीकरिष्णुदुग्धम् । (२) गूर्जरदेशेन सममसूयया (३) निःशेषेण गतैः स्वर्भाग्यैः। (४) कामगव्यः ॥६१॥ गाव० । गावो भान्ति । किंभूता गाव: ? । वत्सान्दृष्ट्वा सुधानिष्फलकृदुग्धं क्षरन्त्यः । उत्प्रेक्ष्यते । यद्गूर्जरदेशेन समं ईर्ष्यापापेन क्षीणदेवलोकभाग्यैः कृत्वा पतिताः कामगव्यः ॥६३॥ हीसुं० 'ब्रह्माण्डभाण्डोपरिभित्तिभागप्रोत्तानयानोद्भवदतिभाजः । सातं चरन्त्यः किमुपेत्य धात्र्यां स्वर्धेनवो यत्र विभान्ति गावः ॥६२॥ इति गावः ।। (१) ब्रह्माण्डं लोक एव भाण्डं भाजनं गोपालकाकारविशेषस्तस्य ऊर्ध्वभित्तिसूत्रप्रोत्तानं ऊर्ध्वाः पादा अधः शरीरमिति यद्यानं गमनं तेन प्रकटा भवन्ती अतिः मानसा-शारीरकीव्यथा तां भजन्तीति ॥६२॥ १. गायवर्णनम् इति प्रतिपार्श्वे टि० । २. ०चरदोण हीमु० । ३. यैरिवावतीर्ण भुवि देवगाव: हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy