________________
प्रथमः सर्गः गिरीन्द्राः ? । सह नदीभिः सेनाभिश्च वर्त्तन्ते । पुनविकसिता नवीनाः आम्रा एवातपत्राणि येषां ते । पुनः किंभूता गिरीन्द्राः ? । झरन्तो वहन्तो ये निर्झरास्त एव रोमगुच्छाश्चामराणि येषां ते । उत च
राजानोऽपि छत्रचामरसेनायुक्ताः स्युः ५६।। हीसुं० विद्युन्मणी भूषणभूष्यमाणा मिलद्वलाकाघनपुष्पनद्धा ।
कादम्बिनी बद्धशिखानुषङ्गा 'यद्गोत्रलक्ष्म्या:३ कबरीव रेजे ॥५५॥ (१) विशेषेण द्योतमाना मणयः पक्षे विद्युदेव मणिभूषणानि । (२) मिलन्त्य आश्लिषन्त्यो या बकाङ्गनास्ता एव प्रचुराणि कुसुमानि तैाप्ता पक्षे बलाकावदुज्ज्वलैर्मेधमालया रचितश्शूलायां
संगो यस्याः (३) गिरिलक्ष्म्याः । (४) वेणी ॥५५॥ हील. यत्र देशे शैलोपरि मेघमाला भाति स्म । उत्प्रेक्ष्यते । गूर्जरपर्वतानां लक्ष्म्या वेणी । किंभूता ? ।
कृतशिखरप्रसङ्गा । किंभूता ?। विद्युदेव रत्नभूषणं, तेन शोभिता । पुनः मिलन्तीभिर्बलाकाभिघन
पुष्पैर्जलैर्नद्धा पक्षे शुभ्रत्वाद्वलाकातुल्यैः सान्द्रपुष्पैर्गुम्फिता ॥५७।। हीसुं० 'नित्यातिवाहाद्विगतावलम्बाम्बरेम्बरद्वीपवती विखिन्ना ।
'प्रोत्तुङ्गयद्भूधरनिर्झराणां निभेन भूभागमिवाभ्युपैति ॥५६॥ इति गिरयः ।। (९) सदातिशयेन प्रवहनात् निरालम्बा स्वर्गगङ्गा । (२) अम्बरालम्बिगूर्जरगिरिनिर्झरव्याजेन ।
(३) समेति ॥५६॥ हील० नित्या०। अम्बर-नदी-गङ्गा-पर्वत-निर्झरकपटेन । इवोत्प्रेक्ष्यते । पृथ्वीं आयाति । किम् ? निराश्रये
आकाशे अतिवहनात् खिन्ना इव ॥५८॥ हीसुं० 'कै दार्यमुज्जृम्भितशालि यस्मिन्विहङ्गवृन्दैर्व्यरुचच्चरद्भिः ।
'महीन्दिराया मणिगुम्फगर्भो नीलीविनीलः किमयं निचोलः ॥५७॥ (१) केदारनिकरः । (२) विकसितकलमम् । (३) शुशुभे । (४) शालिकणानी( नि) स्वादयद्भिः विचरद्भिश्च । (५) भूमिलक्ष्म्याः । (६) रत्नरचनामध्यः । (७) निचोल:
॥५७॥ हील. कैदा०। यस्मिन्देशे केदारसमूह: भाति स्म । इवोत्प्रेक्ष्यते । रत्नरचनागर्भितः । किंभूतः ? गलीव
नीलः । कञ्चुकोऽसौ ॥५९|| हीसुं० कैदारिकं क्वापि समञ्जरीकशालि 'व्यलासीन्नदसन्निधाने ।
रोमावली नाभिविभासिमध्यदेशे किमेषा विषयेन्दिरायाः ॥५८॥ (१) बभौ ।(२) इह समीपे । (३) नाभिना शोभनशील उदरभागे। (४) देशलक्ष्म्या: ॥५८॥
1. गिरि इति प्रतिपार्श्वे टि० । 2. वेंण इति प्रतिपार्श्वे टि० । 3. क्यार्या यत्र इति प्रतिपार्श्वे टि० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org