SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ १४ 4 श्री हीरसुन्दर' महाकाव्यम् (१) भ्रमरयुक्तपद्मनेव । (२) चक्रवाकमिथुनेन ॥५०॥ (१) रोमराजीः । ( २ ) शेवालमालाभिः । (३) अपि चे 'ति पुनरर्थे - एका सरस्वती नदी अपरा साभ्रमतीति । ( ४ ) स्वस्यां विषये क्रीडायां लालसान् ( ५ ) प्रधानस्त्री । ( ६ ) नामनदी ॥ ५१ ॥ हील० मुक्ताल० । अपि च । यत्र देशे साभ्रमती नदी प्रधानस्त्रीव तरुणगणान्स्वस्मिन्विषये क्रीडाचपलान्करोति । किंभूता साभ्रमती ?। निजतटवर्त्तिनो लक्ष्मणाः सारसविहङ्गमास्तेषां लक्षैः । मुक्तालताङ्केव मुक्ताहारः पूर्वभागे यस्याः सा । पुनः किंभूता साभ्रमती ? तटेऽनुकूलं शब्दायमानाभिर्हसीभिः रणज्झणिति निक्वणायमाननूपुरमण्डितेव । पुनः किंभूता साभ्रमती ? | नेत्रेण सहितं यद्वक्त्रं तस्य श्रियमाश्रयन्तीव । केन ? । भ्रमरं आश्लिषति आलिङ्गतीत्येवंशीलं यत्सरोरुट्पद्मं तेन । पुनः किंभूता साभ्रमती ?। रथाङ्गनाम्नोर्युगलेन कृत्वा उत्तुङ्गौ पुष्टौ यौ स्तनौ तयोर्द्वन्द्वं दधतीव । पुनः किंभूता साभ्रमती ? शेवाललताभिः कृत्वा रोमश्रेणिमादधानेव । वरमहेलाप्येतादृशी भवति ॥५१-५२५३ ॥ हीसुं० 'यत्रोन्नमद्वारिदवम्मिताङ्गास्त'डिलतोपात्तनिशातशस्त्राः । 'आखण्डलेन द्विषतेव रोषाद्योद्धुं 'व्यवस्यन्ति विलासशैलाः ॥५२॥ (१) नम्रीभूतघनेन सन्नाहयुक्तशरीराः । ( २ ) विद्युदेव गृहीततीक्ष्णायुधाः । ( ३ ) इन्द्रेण । ( ४ ) उद्यमं कुर्वन्ति ॥ ५२ ॥ हील० यत्रोन्न० । यत्र देशे विलासशैलाः शक्रेण द्विषता वैरिणा सह रोषात्स्ववंश्यलक्षपक्षछेदोद्भूतात्कोपाद्योद्धुं सङ्ग्रामं कर्तुं प्रगल्भन्ते । किंविशिष्टाः ? | उन्नमन्तमेघास्तैर्वर्मितं सन्नाहयुक्तं जातमङ्ग येषां ते । पुनः विद्युद्वितानान्येव गृहीतानि शाणोत्तेजिता [ नि] शस्त्राणि यैस्ते ॥५४॥ हीसुं० इयत्तयानन्तमपि प्रमातुं प्रगल्भमाना इव कौतुकेन । शैलाः कृतव्योमवहावगाहा जगाहिरे निर्ज्जरराजमार्गम् ॥५३॥ ( १ ) एतावत्परिमाणत्वेन अन्तरहितमपि । ( २ ) उद्यमं कुर्वाणा । (३) विहितस्वर्गगङ्गाजलविलोडनाः । (४) आकाशम् । “सुरेश्वराध्व" इति नैषधे ॥५३॥ हील० इय० । यत्र दे [ शे] शैलाः पर्वताः कृतस्वर्गङ्गाप्रवेशाः निर्जरराजमार्गं आकाशं अवगाहते स्म । इवोत्प्रेक्ष्यते । एतावत्प्रमाणेनाकाशमिति मातुं कौतुकेन उद्यमं कुर्वाणा इव । कौतुकिनो हि निर्विचारं यत्र तत्राप्युत्सहते ॥५५॥ हीसुं० 'सवाहिनीकाः स्मितनूतचूतच्छत्रा झरन्निज्झररोमगुच्छाः । ३अनिह्ववाना 'धरणीधरत्वमिवात्मनो यत्र बभुगिरीन्द्राः ॥५४॥ (१) नदी सेना च । ( २ ) नवसहकारछत्राः । ( ३ ) प्रकटीकुर्वाणा: ( ४ ) राजतां शैलत्वं च ॥५४॥ हील० सवा० । यत्र पर्वतपतयः भासिरे । इवोत्प्रेक्ष्यते । भूभृद्भावं स्वकीयं प्रकटीकुर्वाणाः । किंभूता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy