SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २७८ 'श्री हीरसुन्दर' महाकाव्यम् (१) बलात् । (२) गृहीताम् । (३) स्वस्यशोभाम् । (४) शङ्खाः । (५) भूषाग्रहणात् ग्रथिली जायमानाः । (६) पूत्कारं कुर्वन्ति । (७) गृहं गृहं प्रति । (८) भिक्षासमूह भुजन्तीति । (९) भिक्षुकान् ॥८६॥ हील० यत्कण्ठेन शोभा गृहीतां दृष्ट्वा शङ्खा विकलाः सन्यासिकादिकरगताः पूत्कारं कुर्वन्ति ॥९०॥ हीसुं० कण्ठश्रिया 'स्वःकुरविन्ददत्या 'निर्जित्य शङ्खनिगृहीतभूषैः ।। रेरथाङ्गपाणि प्रति पाञ्चजन्यः "पुत्कर्तुकामैः प्रहितः किमेकः ॥८७॥ (१) देव्या । “स्वे हि दर्शयति कः परेण वाऽनय॑दन्तकुरविन्दमालिके" इति नैषधे । (२) हठाद्गृहीतशोभैः । (३) नारायणं प्रति । (४) नामा शङ्खः । (५) रावां कर्तुमिच्छभिः । (६) प्रेषितः ॥८७॥ हील० कण्ठः । श्रीजिनशासनाधिष्ठात्र्या कण्ठशोभया जितैः शङ्खः कृष्णं प्रति एकः शङ्खः प्रेषित इव ।।८८।। हीसुं० 'यूनो मनोजन्मनृपस्य तस्या "वपुलता वासनिकेतभाजः । 'शृङ्गारभूषासुषमा 'दिदृक्षोरिवा त्मदर्शः शुशुभे “तदास्यम् ॥८८॥ (१) तरुणस्य । (२) स्मरराजस्य । (३) देव्याः । (४) शरीरयष्टिरेव निवासार्थं गृहं भजतीति तस्य । (५) शृङ्गारार्थं भूषणानां सातिशायिशोभाम् । “विना[ऽपि ?] भूषामवधिः श्रियामसौ" इति नैषधे । भूषणानि विनापि दमयन्ती शोभानां सीमा-इति तद्वृत्तिः । (६) द्रष्टुमिच्छोः । (७) दर्पणः । (८) देवीवदनम् ॥८८॥ हील. तदास्यं रेजे । उत्प्रक्ष्यते । तद्वपुःस्थस्मरस्य स्वशोभालोकनार्थं मुकुरः ॥११॥ हीसुं० 'लक्ष्मच्छविभ्रूयुगली दधानं 'ज्योत्स्नासुधापायिचकोरचक्षुः । उत्सङ्गसङ्गीकृततारदन्तमास्यं त्रिदश्यां शशिबिम्बति स्म ॥८९॥ (१) लाञ्छनवत्कृष्णा कान्तिर्यस्यास्तादृशी भ्रुवोर्द्वयीम् । (२) चन्द्रिकां सुधां च चन्द्रिकारूपां वा सुधां पिबत इत्येवंशीलौ चकोरावेव चक्षुषी नेत्रे यत्र । (३) अङ्कसङ्गमं प्रापिताः तारा एव दशना यत्र । "प्रथममुपहृत्यार्थं तारिखण्डिततन्दुलै"रिति नैषधे । (४) चन्द्रमण्डलमिवाचरति स्म ॥८९॥ हील० देव्या मुखं चन्द्रमिवाचरति स्म । किंभूतम् ?। लाञ्छनवर्द्धवं दधानम् । पुनः किंभूतम् ? ज्योत्स्नामृतपायिनो(नौ) ये(यौ) चकोरौ तत्तुल्ये नेत्रे यत्र । पुनः किंभूतम् ?। क्रोडे स्थापिता ये तारास्तद्वद्दन्ता यत्र ॥९२॥ हीसु० 'चिकीर्षता यन्मुखमारेत्तसारमात्मानम न्विष्य 'चतुर्मुखेन । गलन्मरन्दाश्रुकणाब्जराजीद्विरेफरावैरिव "रारटीति ॥१०॥ 1. निर्जीयमानैर्निखिलैस्त्रिरेखैः हीमु० । 2. तायाः स निकेतभाजः हीमु० । 3. कृष्णच्छवि हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy