SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २७७ अष्टमः सर्गः ॥ यत्र तादृशी । पुनर्दृग्भृङ्गाञ्चितं मुखकमलं यस्यां सा । अत एव जम्बूनदीव या भाति ॥८४॥ हीसुं० १भुजान्तरानुत्तरराजधान्या २अभ्यर्णभूमौ तिजानिभर्तुः । किमु "स्फुरच्चन्दनचारिमश्रीक्रीडाद्रिकूटौ पलसतस्तदंसौ ॥८२।। (१) हृदयरूपाया राजधान्याः (२) समीपस्थाने । (३) स्मरराजस्य । (४) प्रकटीभवन्ती श्रीखण्डस्य मनोज्ञत्वलक्ष्मी ययोस्तादृशे क्रीडाकृते शैलशिखरे । (५) शोभेते । (६) देवीस्कन्धौ ॥८२॥ हील० तस्याः स्कन्धौ भातः । उत्प्रेक्ष्यते । हृदयरूपराजधानीनिकटे कामस्य चन्दनस्य विलेपनेन वृक्षण कलितौ क्रीडापर्वतस्य कूटौ शिखरे ।।८५।। हीसुं० 'स्वःसुभ्रवः प्रेक्ष्य पयोधरौ "स्वसंस्पद्धिनौ "तुङ्गिमविभ्रमेण । जयाय तयुद्धविधित्सयेव कुम्भौ समेतौ स्फुरतस्तदंसौ ॥८३॥ (१) देव्याः । (२) दृष्ट्वा । (३) स्तनौ । (४) आत्मना स्पर्धाकारिणौ । (५) उच्चत्वलक्ष्म्या । (६) स्तनाभ्यां साधू सङ्ग्रामं कर्तुमिच्छया । (७) घटौ । (८) देवी स्कन्धौ ॥८३॥ हील० तस्या अंसौ स्फुरतः । उत्प्रेक्ष्यते । देव्याः स्तनौ संहर्षकरौ दृष्ट्वा जयार्थं स्वयं ताभ्यां युद्धं ' विधातुमिच्छया आगतौ कलशौ भात इव ॥८६।। हीसुं० 'अस्याः सदृक्षां श्रियमाश्रयन्ती नास्ति त्रिलोक्यामपि कापि कान्ता । 'इतीव रेखात्रितयं ततान 'तत्कण्ठपीठे 'सरसीजजन्मा ॥८४॥ (१) देव्याः । (२) तुल्याम् । (३) शोभाम् । (४) काचित्स्त्री नास्त्येव । (५) इति हेतोः। (६) रेखात्रिकम् । (७) चकार । (८) देवीकण्ठकन्दले । (९) विधाता ॥८४॥ हील० एतत्सदृक्षा कापि कान्ता लोकत्रये नास्तीति विचार्य ब्रह्मा कण्ठे रेखात्रयमकरोत् ॥८७|| हीसुं० कण्ठीकृतो यज्जलजस्त्रिदश्यास्तद्वेधसा साधु विधीयते स्म । नैसगिकानार्जवमात्मनिष्ठं 'जह्यादबाह्यं कथमन्य थायम् ॥८५॥ (१) शङ्खः । “निवेश्य दध्मौ जलजं कुमारः" इति रघुवंशे । (२) सम्यकृतम् । (३) स्वाभाविकां वक्रताम् । (४) त्यजेत् । (५) आन्तरं मध्यस्थितम् । (६) अपरेण प्रकारेण । (७) शङ्खः ॥८५॥ हील० धात्रा शङ्खः कण्ठीकृतस्तत्सम्यकृतम् । नो चेदेष अन्तर्गतां वक्रतां कथं जह्यात् ॥८९॥ हीसुं० यत्कण्ठपीठेन 'हठादु'पात्तां दृष्ट्वात्मभूषामखिला स्त्रिरेखाः ।। 'पूत्कुर्वते किं "विकलीभवन्तः प्रत्यालयं 'भैक्षभुजो भ( भु)जन्तः ॥८६॥ 1. इत्यंसौ हील० । 2. हीलप्रतौ हीमु०च यथासङ्घमेतेषां ८५-८६-८७-तमश्लकानामेषोऽनुक्रमः ८९-९०-८८, ८८-८९-८७ । 3. इति कण्ठपीठः हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy