________________
२७६
'श्री हीरसुन्दर' महाकाव्यम् हील० यत्करकमलाभ्यां सह सङ्ग्रामे प्रहारोद्भूतरक्तै रक्तीभूतैः कमलैः कोकनदख्यातिराप्तेव ॥७९॥ हीसुं० इयं 'मृणाली जडसङ्गमौज्झ्य निजाङ्गजेनानुगताम्बुजेन ।
"एत्याश्रिता किं विबुधाम्बुजाक्षी "यद्दोलताशालिशया "व्यलासीत् ॥७९॥ (१) कमलनालम् । मृणालशब्दस्त्रिलिङ्गः । (२) मूर्खाणां डलयोरैक्याज्जलानां च गर्म त्यक्त्वा । (३) स्वपुत्रेण । स्वोत्पन्नत्वात् । (४) सहिता पद्मेन । (५) आगत्य । (६)
पण्डितां स्त्रियं सुराङ्गनां च । (७) देवीभुजयष्टिशोभनशीलपाणिः । (८) शुशुभे ॥७९॥ हील. रम्यकरा दोलता भाति । उत्प्रेक्ष्यते । जलं मूर्ख वा त्यक्त्वाम्बुजयुक्ता मृणाली कमलनालम् ॥८२।। हीसुं० आबालमुद्यद्वलयः शिखाश्चा ङ्गल्यः पुनर्यत्र नखाः "सुमानि ।।
ज्योतिर्मरन्दानि करद्रुमोऽस्या “यूनां मनोभृङ्गगणं 'धिनोति ॥८०॥ (१) स्थानकम् । (२) दीप्यमानकटकः । (३) शाखाः । ( ४ ) करशाखाः । (५) पुष्पाणि।
(६) कान्तिरूपमधूनि येषु । (७) देव्याः । (८) तरुणानाम् । (९) प्रीणयति ॥८०॥ हील. यत्र दीप्यमानो वलयः आलवालः, पुनर्यत्राङ्गल्यः शाखाः, यत्र नखाः पुष्पाणि, पुनर्यत्र कान्तयो
मकरन्दास्तादृशोऽस्या हस्ततरुस्तरुणानां मनोभ्रमरौघं प्रीणयति । 'धिवि प्रीणने' इदित्वान्नुम् । "धिन्विकृण्वोरश्च' आभ्यामप्रत्ययः स्यादकारान्तादेशश्च स्यात्कर्तरि सार्वधातुके । 'उ'प्रत्ययस्या
शित्वादलोपः । अलोपस्य स्थानित्वानोपधागुणः । धिनोतीति सिद्धम् ॥८०॥ हीसुं० 'मृणालिकाभिर्जलदुर्गभाग्भिरपि स्वजैत्री प्रविभाव्य 'बाहाम् ।
स्वसून( नु)पद्मः प्रहितः किमेतदुपास्तये 'पाणिरराजदस्याः ॥८॥ (१) कमलनालैः । (२) पानीयरूपं विषमस्थानं भजतीति । (३) आत्मनो जयनशीलाम् । (४) दृष्ट्वा । (५) भुजाम् । (६) स्वस्याङ्गजातं कमलम् । (७) प्रेषितः । (८)
देवीभुजायाः सेवाकृते । (९) शोभते स्म । (१०) देव्याः ॥८१॥ । हील० जलकोट्टमध्यस्थाभिष्क(: क)मलनालिकाभिः स्वासां जैत्री बाहां दृष्ट्वा स्वपुत्रपद्मः प्रेषितः ॥८१॥ हील०→बभौ भुजाभ्यां मखभुग्मृगाक्षी दग्धायुधस्येव कृते स्मरस्य ।
रसालवल्लीमयकार्मुकाभ्यामभ्यर्थनादात्मभुवा कृताभ्याम् ॥८३॥
देवी भुजाभ्यां बभौ । उत्प्रेक्ष्यते । धात्रा स्मरार्थं रसालस्य चापाभ्यां कृताभ्याम् ॥८३ ।। हील० समुच्चरच्चन्द्ररुचीचयाम्भा पार्श्वद्वयोद्भूतभुजा मृणाली ।
जम्बूनदीवोच्चकुचान्तरीपा या भाति दृग्भृङ्गमुखारविन्दा ॥८४॥ इति भुजा ||हील० प्रादुर्भवन्ति कनककान्त्यौघ एवाम्भांसि यस्याम् । पुनर्भुजा मृणालीवती । पुनरुच्चौ कुचावेव द्वीपे 1. हीलप्रतौ हीमु० च यथासङ्ख्यमेतेषां ७९-८०-८१ तमश्लोकानामेषोऽनुक्रमः ८२-८०-८१, ८१-७९-८० 12. इति हस्तः हीला* एतदन्तर्गतः पाठो हीसुंप्रतौ नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org