SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २७५ अष्टमः सर्गः ॥ हीसं० 'स्वयं विनिर्मापयितुं जयं स्वशोभापराभावुकयन्नखानाम् । "राजानम'भ्यर्थयते स्वकान्तमुपान्तयाता किमु तारकाली ॥७४॥ (१) आत्मना । (२) कारयितुम् । (३) निजलक्ष्मीपराभवनशीलदेवीकरकामाङ्कशानाम् । (४) चन्द्रं नृपं च । (५) याचते । (६) निजभर्तारम् । (६) समीपे समेता ॥७४॥ हील० ताराली राजानं-चन्द्रं भूपं च याचतीव । यथा वयं नखजयं कुर्मस्तथा कुरु ॥७५|| हीसुं० 'वने 'स्व'मगु(द्व)ध्य शिखासु भूमीरुहां तपोऽतप्यत य निरन्नम् । यदङ्गलीभूयमिव प्रवालैः पचेलिमैस्तैः सुकृतैरवापे ॥७५॥ (१) आत्मानम् । (२) ऊर्ध्वं बद्ध्वा । (३) शाखासु । (४) वृक्षाणाम् । (५) निराहारम् । (६) देवीअ(व्य)ङ्गलीत्वम् । (७) परिपाकं प्राप्तैः । (८) पुण्यैः । (९) प्राप्तम् ।।७५॥ हील. पल्लवैः शाखान्ते आत्मानमूर्ध्वं बद्ध्वाशनरहितं यत्तपस्तप्तं तैरुदयावलिकायामागतैः पुण्यैर्यदङ्गुलीभावो वाप्तः ॥७७॥ हीसुं० 2'सुपर्बपारिप्लवलोचनाया: श्रियं दधौ धौरणिरङ्गलीनाम् । "विजृम्भमाणारुणपाणिपङ्कहे "प्ररूढा दलमालिकेव ॥७६॥ (१) चपलनेत्राया देवाङ्गनायाः । (२) शोभाम् । (३) श्रेणिः । (४) विकचरक्तकरनामकमले। (५) उद्गता । (६) पर्णश्रेणिः ॥७६॥ हील० अङ्गुल्यः शोभते । उत्प्रेक्ष्यते । करकोकनदे उद्गता पत्रङ्क्तिः ॥७८॥ हीसुं० 2 प्रसूनधन्वा निजदेहदाहे 'निध्याय दग्धान्विशिखान शेषान् । "कामाङ्कशालीकुरुविन्दपुङ्खान्य दङ्गलीस्ता न थ किं चकार ॥७७॥ (१) स्मरः । (२) दृष्ट्वा । (३) बाणान् । (४) समस्तान्पञ्चापि । (५) अरुणनखश्रेणि रूपहिङ्गुलपुङ्खान् । (६) देवीकरशाखाः । (७) तान्बाणान् । (८) पुनः ॥७७ ॥ हील० स्मरो बाणान्दग्धान् दृष्ट्वा नखा एव कुरुविन्दस्य हिङ्गुलस्य रत्नस्य वा पुङ्खा येषां तादृशानङ्गुलीरूपा न्बाणांश्चकार ॥७६।। हीसुं० अजय्ययत्पाणिपयोरुहाभ्यां सहाहवे संस्रवदत्रपूरैः । "शोणीभवद्भिः कमलैर वापेऽरुणाम्बुजख्यातिरिव "क्षमायाम् ॥७८॥ (१) जेतुमशक्याभ्यां देवीकरकमलाभ्याम् । (२) सङ्ग्रामे । (३) गलद्रुधिरनिकरैः । (४) अरुणैर्जायमानैः । (५) प्राप्ता । (६) रक्तकमलानीति प्रसिद्धिः । (७) भूमौ ॥७८॥ 1. इति पाणिनखाः हील०। 2. हीलप्रतौ हीमु० च यथासङ्ख्यमेतेषां ७५-७६-७७ तमश्लोकानामेषोऽनुक्रमः ७७-७८-७६, ७६-७७-७५ । 3. इति कराङ्गल्यः हील०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy