________________
२७४
'श्री हीरसुन्दर' महाकाव्यम् स्तनाभ्याम् । (६) चलितुमनसः । (७) कल्याणकुम्भाभ्याम् । (८) कामस्य ॥६९॥ हील. देवीस्तनाभ्यां शोभितम् । उत्प्रेक्ष्यते । जगज्जयार्थं प्रस्थितस्य स्मरस्य मङ्गलघटाभ्याम् ॥७०॥ हीसुं० कुम्भीन्द्रकुम्भौ 'कुचभूयमूहेऽनुभूय यस्याः "सुखिनावभूताम् ।
"सुव्यक्तमुक्ताफलमालिकानां सौभाग्यमाभ्यादि( मि )ह लभ्यते यत् ॥७०॥ (१) स्तनभावम् । (२) सम्प्राप्य । (३) देव्याः । (४) सातवन्तौ । “प्रियामुखीभूय सुखी सुधांशु' रिति नैषधे । प्रकटं दृश्यमानानां मौक्तिकानां पङ्क्तीनाम् । (६) सुभगतां सौन्दर्यम् ।
(७) यत्करणात् । (८) स्तनाभ्याम् ॥७०॥ हील० ऐरावणकुम्भौ कुचत्वं प्राप्य सुखिनौ जातौ । यतोऽत्र मुक्ताफलसौभाग्यं प्रत्यक्षतो लब्धम् ।।७१।। हीसुं० 'प्रसूनतारावलिशालितायां 'वेणीतमाया'मुदिते "मुखेन्दौ ।
यन्मा द्यतस्तत्कुचचक्रवाकौ "श्रीसूनुसौराज्यविजृम्भितं तत् ॥७१॥ (१) पुष्पाण्येव तारकपङ्क्तिभिः शोभितायाम् । (२) कबरीरूपरात्रौ । (३) उद्गते । (४) वदनचन्द्रे। (५) मदं प्र( प्रा )प्नुवतः । (६) देवीस्तनरथाङ्गौ । (७) मदनराजस्य शोभा
राज्यविलसितम् ॥७१॥ हील. प्रसू० । पुष्पान्ये(ण्ये)व नक्षत्राणि तैः कलितायां वेणीरूपरात्रौ मुखचन्द्रे उदिते कुचावेव चक्रवाको
यत्प्रमुदितमनसौ संयुक्तौ स्तस्तत्कामभूपप्रतापः । यदा सुराज्यं स्यात्तदा केषामपि दुःखातङ्कौ न स्त:
॥७२।। हीसुं० 'पत्रावलीव्याजवती 'यदीयवक्षोजदम्भर्षभनामकूटे । ___ २विजित्य 'विश्वं विजयप्रशस्ति लिपीकृता श्रीसुतचक्रिणेव ॥७२॥
(१) पत्रवल्लय एव कपटं यस्यां । (२) प्रशस्ते स्तनच्छद्म यस्य तादृशे ऋषभकूटे । क्षुल्लहिमवन्निकटस्थाने षटखण्डविजयविधायिचक्रिण: स्वनामलिखनस्थाने । (३) त्रिभुवनम् ।
(४) स्वाज्ञापालनपरं विधाय । (५) लिखिता । (६) स्मरसार्वभौमेन ॥७२॥ हील. यस्याः स्तनलक्षणे ऋषभकूटे [प]त्रलतादम्भाद्विजयप्रशस्तिः कन्दर्पचक्रिणा विश्वं विजित्य लिखिता
||७३॥ हीसं० श्यया स्ववक्षोरुहयोजितेन रेतुङश्रिया रोहणभूधरेण ।
24उपायनानीव कृतानि लक्ष्मीपुष्पाणि पाण्योर्नखरच्छलेन ॥७३॥ (१) देव्या । (२) निजस्तनयोः (३) उच्चत्वश्रिया । ( ४ ) रत्नाचलेन । (५) ढौकनानि ।
(६) रक्तमणयः । (७) करनखदम्भात् ॥७३॥ हील० यया स्तनौनत्यशोभया जितेन रोहणाद्रिणा करे नखच्छलेन महार्घ्यरक्तरत्नानि दनानि 11*5:: 1. इति स्तनौ हील०। 2. दत्तानि दण्डे किमुदात्तलक्ष्मी० हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org