________________
२७२
'श्री हीरसुन्दर' महाकाव्यम् सः" इति हैम्याम् ॥६०॥ हील० जगत्र०। त्रिवली भाति । उत्प्रेक्ष्यते । स्वकीर्तेः श्वेतत्वेन जिता तिस्रो वेण्यः प्रवाहा यस्यास्तादृशी
गङ्गेवागता ॥६१॥ हीसुं० स्तनान्तरीपाङ्कवपुःप्रसर्पज्जयोतिःस्रवन्तीसलिलप्ररूढा ।
लोमावली शैवलवल्लरीव रराज "राजीव विलोचनायाः ॥६१॥ (१) कुचावेवान्तर्जले तटौ द्वीपावुत्सङ्गे यस्य तादृशे शरीरस्य विस्तरत्कान्तिरूपनदीजले उद्गता।
(२) रोमराजी । (३) शैवालमाला । (४) पद्मदृशो देव्याः ॥६१॥ हील० स्तनावेव द्वीपे क्रोडे यस्य तादृशानि कायस्य कान्तिजलानि तेषूद्गता ॥६२।। हीसुं० विनिद्रनीलोत्पलकेसरश्री: 'स्वःसुभ्रुवो राजति रोमराजी ।
किं रेतुङ्गवक्षोजकलिन्दशृङ्गिशृङ्गान्तरोदीत कलिन्दकन्या ॥६२॥ (१) विकसितेन्दीवरकिञ्जल्कानामिव शोभा यस्याः । (२) देव्याः । (३) अत्युच्चौ कुचौ एव कलिन्दनाम्नः शैलस्य शिखरे तयोरन्तराले प्रकटीभूता यमुना । "उदीतमातङ्कितवानशङ्कते"
ति नैषधे ॥६२॥ हील० उत्तुङ्गस्तनावेव शृङ्गे यत्र तादृशो यः कलिन्दशृङ्गी तत्शृङ्गयोर्मध्ये उद्गता यमुना ॥६३॥ हीसुं० स्मरद्वीपस्यै'णमदाभिरामवक्षोजविन्ध्याचलसन्निधाने ।
नाभीहदाभ्यर्णविभासिनी यल्लोमावली केलिकृते 'वनीव ॥६३॥ (१) कस्तूरीविलेपन मनोज्ञस्तनरूपविन्ध्याद्रिसमीपे । (२) नाभीहूदपार्श्वशोभनशीला । "नाभीमथैष श्लथया समोनु (?)" इति नैषधे । (३) क्रीडार्थम् । (४) उद्यानम् । “स्ववनी
प्रवदत्पिकापि का" इति नैषधे ॥६३॥ हील० मृगाणां मदेन कस्तूर्या क्रीडाभिर्वा रम्ये गिरिनिकटे लोमावली कामगजस्य वनीव ॥६४|| हीसुं० 'निजाक्षिलक्ष्मीहसितैणशावकश्रेण्या व्यभाल्लोमलता 'त्रिदश्याः ।
मध्यं कृशं वर्धयितुं किम स्या वय:श्रिया नील मदायि सूत्रम् ॥६४॥ (१) स्वकीयनयनशोभापराभूतमृगबालाबालकमालिकया।(२) देव्याः (३) उदरम् (४)
पुष्टं कर्तुम् । (५) देव्याः । (६) यौवनलक्ष्म्या । (७) दवरिका । (८) दत्ता ॥६४॥ हील० देव्या लोमलता व्यभात् । उत्प्रेक्ष्यते । यौवनलक्ष्म्या किञ्चिदुदरं वर्द्धयितुं नीलं सूत्रं दत्तम् ॥६५।। हीसुं० यस्याः स्तनौ संस्फुरतः स्म 'चित्तनिवासिमीनाङ्कमहीधनस्य ।
'विलासवत्योरिव शातकुम्भसन्दृब्धलीलालयतुङ्गशृङ्गौ ॥६५॥ 1. इति रोमावली हील०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org