________________
२६०
'श्री हीरसुन्दर' महाकाव्यम् हील० यथा समग्रलोकाय स्वरूपदर्शनायेन्दोमण्डलमायाति तद्वत्स्वस्मै दर्शयितुमागतां तां दृष्ट्वा निद्रायित
नेत्रेणाप्यमुना जाग्रतेव जातम् ॥९।। हीसुं० प्रवाललक्ष्मीरिव कामितदोस्तद्ध्यान सिद्धेः किमुताग्रदूती ।
प्रत्यक्षवत्प्रादुरभूत्पुरोऽस्य स्वप्नेऽपि सा सार्वमताधिदेवी ॥१०॥ (१) प्रवालशोभा । (२) वाञ्छितवृक्षस्य । (३) प्रथमशासनहारिकेव।(४) जाग्रदवस्थायां
प्रकटेव । (५) प्रकटीभूता । (६) निद्रायाम् । (७) जिनशासनदेवता ॥१०॥ हील० वाञ्छावृक्षस्य पुष्पमिव जिनमतदेवता स्वप्ने आगता ॥१०॥ हीसुं० सृष्टिं 'सिसृक्षोः 'सुदृशां बभूव स्वयम्भुवः "शिल्पगुरु: ५पुरा यः ।
विधाय तां "बिम्बमिवादसीय शिक्षाकृते सोऽर्पयति स्म 'तस्मै ॥११॥ (१) कर्तुमिच्छोः । (२) स्त्रीणाम् । (३) विधातुः । (४) विज्ञानाचार्यः । (५) पूर्वम् ।
(६) कृत्वा । (७) शासनदेवताया मूर्तिम् । (८) शिक्षणाय । (९) धात्रे ॥११।। हील० धातुगुरुर्मूलरूपं तां कृत्वा तस्मै धात्रे शिक्षाकृतेऽर्पयति स्मेत्युत्प्रेक्षा ॥११॥ हीसुं० 'महीवियद्वीक्षणकेलिलोलीभवन्मनाः स्वैरविहारिणीयम् ।
जम्बूनदिन्या अधिदेवतेव "समीयुषी काञ्चनचारिमश्रीः ॥१२॥ (१) भूमिनभोविलोकनक्रीडया चपलीभवच्चित्ता । (२) स्वेच्छया चारिणी । (३) जम्बूनद्या ।
(४) अधिष्ठायिका । (५) समेता । (६) स्वर्णवन्मनोज्ञा शोभा यस्याः ॥१२॥ हील० मही० । यस्या मृज्जाम्बून[द]दम्भात्तस्या जम्बूनद्या अधिष्ठात्री समेतेव ॥*१२।। हीसुं० 'निर्यत्सुरास्त्राशनिभूषणानि विरेजुरङ्गानि 'सुराङ्गनायाः ।
स्वस्पद्धिनः श्रीभिरिवेन्द्रचापवज्राण्यमीभिर्विधृतानि जेतुम् ॥१३॥ (१) निर्गच्छन्ति शक्रधनुषि येभ्यस्तादृशानि वज्ररत्नाभरणानि येषु । (२) शासन देवतायाः ।
(३) निजशत्रून् । (४) इन्द्रधनुर्वजाणीव ॥१३॥ हील० निः सरन्तीन्द्रधनुं(नूं)षि येभ्यस्तादृशानि वज्ररत्नानां भूषणानि येषु तादृशान्यङ्गानि रेजुः । उत्प्रेक्ष्यते ।
अङ्गैर्वज्राणि धृतानि ॥१३॥ हीसुं० 'राजीवराजी विजिता यदङ्गै दुश्रिया रङ्गदनगरङ्गैः ।
तत्तुल्यभावाय तपः सृजन्ती 'वने वसन्तीव कुशेशया सीत् ॥१४॥ (१) कमलमाला । (२) सुकुमाललक्ष्म्या । (३) नृत्यं कुर्वतः स्मरस्य नर्तनस्थानैः ।
(४) तस्या अङ्गानां सदृशतायै । (५)"वनं कानननीरयो" रित्यनेकार्थः । (६) दर्भशायिनी। 1. इति सूरिपूर: शासनदेवतावर्णनारम्भः हील० । 2. पुरा यः हीमु० । 3. ०र्बभूव हीमु० । 4. हदिन्या हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org