SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः ॥ २५९ (१) प्रणिधानप्रभावेन । (२) मध्यरात्रे । (३) ध्वजः । (४) गृहस्य । (५) वेगेन । (६) वातस्य । (७) कम्पते स्म ॥५॥ हील० ध्यानानुभावाद्ध्वजवच्छासनदेव्या आसनं कम्पितम् ॥५॥ हीसुं० 'स्वविष्टरं 'कम्प्रमग्वेक्ष्य "बिम्बमिवोत्तरङ्गाम्बुधिबिम्बितेन्दोः । शोणारविन्दायितमीक्षणेन रोषारुणेन 'त्रिदशाङ्गनायाः ॥६॥ (१) निजासनम् । (२) कम्पनशीलम् । (३) दृष्ट्वा । (४) मण्डलम् । (५) प्रबलकल्लोलकलितसमुद्रजले प्रतिबिम्बितचन्द्रस्य । (६) कोकनदमिवाचरितम् । (७) नेत्रेण । (८) कोपरक्तेन । (९) जिनशासनाधिष्ठायिकायाः ॥६॥ हील० मकराकरकल्लोलबिम्बितेन्दुबिम्बवत्कम्प्रं स्वपीठं समीक्ष्य तस्याम्बकाभ्यामरुणीभूतम् ॥६॥ हीसुं० ध्यानस्थितं रेशासन निर्जरी सा निपीय तं "ज्ञानदृशा "वशीन्द्रम् । मुदं दधारा मृतकुण्डमध्यप्रणीतलीलाप्लवनेव "चित्ते ॥७॥ (१) प्रणिधानोपविष्टम् । (२) शासनदेवता । (३) सादरमवलोक्य । (४) अवधिज्ञानरू :नयनेन । (५) सूरीन्द्रम् । (६) सुधाकुण्डस्य मध्ये कृतं क्रीडया स्नानं यया । (७) मनसि ॥७॥ हील० अवधिना तं सूरीन्द्रं दृष्ट्वामृतस्नातेव सा मुमुदे ॥★७|| हीसुं० १अथाविरासीद्वशिशीतकान्तेः पुरः स्फुरज्जैनमताधिदेवी । 2"प्रसादनाभिर्यु निशं शमश्रीरिवेयम ङ्गीकृतकाययष्टिः ॥८॥ (१) ध्यानस्थितसूरीन्द्रदर्शनानन्तरम् । (२) सूरीन्द्रस्य । (३) जिनशासनाधिष्ठायिका । (४) आराधनाभिः । "प्रसादनां दानशात्रवाणा" मिति नैषधे । (५) निरन्तरम् । (६) उपशमलक्ष्मीः । (७) मूर्तिमती ॥८॥ हील. अथेत्यनन्तरं सूरेः पुरः शासनदेवी आगता । उत्प्रेक्ष्यते । सेवातः प्रसन्नीकृता । अतो मूर्तिमती उपशमलक्ष्मीः ॥ ८॥ हीसुं० 3'चान्द्री द्वितीयेव 'कलां जनायां प्राप्तां "सुरी दर्शयितुं "स्वमस्मै । निद्रां दृशा किञ्चन "चुम्बतापि "प्रेक्ष्या मुनाजायत १'जाग्रतेव ॥९॥ (१) चन्द्रसम्बन्धिनीम् । (२) लेखाम् । (३) आगताम् । (४) शासनदेवीम् । (५) आत्मानम् । (६) सूरीन्द्राय । (७) धारयतापि । (८) दृष्ट्वा (९) सूरीन्द्रेण । (१०) जातम् । (११) जाग्रदवस्थेनेव ॥९॥ 1. ०देवता। हीमु० । 2. प्रसादितोपासनया हीमु०। 3. कलामिवेन्दोर्जगते द्वितीयां हीमु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy