________________
एँ नमः ॥
अथ अष्टमः सर्गः ॥ हीसुं० १अथो निशीथे रद्विजराजराजज्ज्योति:प्रथाभिर्मथितान्धकारे ।
"निवातनालीक इव 'व्रतीन्दुानं दधानः स्तिमितीबभूव ॥१॥ (१) अथो ध्याने मनसो निश्चलीकरणानन्तरम् । (२) मध्यरात्रे । (३) चन्द्र स्फुरत्किरणविस्तारै
दलितध्वान्ते । (४) निर्वातपद्म इव । (५) सूरिचन्द्रः । (६) निश्चलो जातः ॥१॥ हील० चन्द्रद्युता दीप्यमानेऽथ निशीथे त्वर्धरात्रौ निष्कम्प[प]द्मवद्ध्याननिश्चलो बभूव ॥१॥ हीसुं० 'पर्यङ्कबन्धः स विभो तश्रीविलासपर्यङ्क इवाबभासे ।
कथं भरोऽ'मुष्य मया विषयो "हृदेति यस्मिन्सम शेत शेषः ॥२॥ (१) पद्मासनरचना । (२) संयमलक्ष्मीक्रीडापल्यङ्क इव । (३) केन प्रकारेण । (४) भारः । (५) सूरीन्द्रपर्यङ्कबन्धस्य । (६) सोढुं शक्यः । (७) मनसा । (८) संशयं कृतवान् । "ध्यानभाजां योगीन्द्राणां ध्यानसमये पर्यडूबन्धस्यातिशायी भारो भवती" ति कविसमयः । तथा- "ततो भुजङ्गाधिपते: फणाग्रैरधः कथञ्चिद्धृतभूमिभागः । शनैः कृतप्राणविमुक्तिरीश:
पर्यङ्कबन्धं निबिडं बिभेद" । इति कुमारसम्भवे ॥२॥ हील० पर्यङ्क० । महाव्रतलक्ष्मीक्रीडापल्यङ्क इव सूरीन्द्रस्य स पर्यङ्कबन्धः शुशुभे । स कः ?। मया भारः
कथं सह्येति शेषनागो यं दृष्ट्वा संशयं कृतवान् ॥२।। हीसुं० ९भुजान्तरासन्नशयारविन्दे विभोश्चकासे विशदाक्षमाला ।
हृद्धयानदुग्धाम्बुनिधिप्रतीरं *प्रपेदुषी कि कलहंस'माला ॥३॥ (१) वक्षस: समीपस्थायिनि करकमले । (२) धवलजपमाला । (३) मनसि यो ध्यानरूपः
क्षीरसमुद्रस्तस्य तटम् । (४) प्राप्तवती ॥३॥ हील० भुजा० । दक्षिणकरे नवकरवाली शुशुभे । शेषं सुगमम् ॥ ३॥ हीसुं० श्रीसूरिमन्त्रं विजने व्रतीन्द्रो जपन्स गोत्रत्रिदशीमिव स्वाम् ।
"दध्यौ 'हृदा "श्रीजिनशासनस्याधिष्ठायिकां निर्जरनीरजाक्षीम् ॥४॥2 (१) एकान्ते । (२) ध्यायन् । (३)कुलदेवतामिव । (४) ध्यायति स्म । (५) मनसा ।
(६) देवीम् । (७) जिनशासनाधिष्ठात्रीम् ॥४॥ हील० स्वकुलदेवतामिव शासनदेवतां दध्यौ ॥४॥ हीसुं० १ध्यानानुभावेन ततो निशीथे सूरीशितुः शासनदेवतायाः ।
केतु निकेतस्य परयेन( ण) वायोरिव क्षणादासनमा चकम्पे ॥५॥ 1. सपतिः हीमु० । 2. इति सूरेानविधानम् हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org