________________
सप्तमः सर्गः ॥
२४९
नैषधे ॥५७॥ हील० चिर० रविणा सार्द्धं विनोदैर्गगनश्रियास्तारामिषाद्वक्षः श्रमाम्बुभिबिन्दुकलितं जातम् ॥५७॥ हीसुं० आगन्तुकस्योदयशृङ्गिशृङ्गस्थानीं तमोद्विड्दमनस्य राज्ञः ।
'नभोवितानं किमकारि तारामुक्ताङ्कितं सृष्टिकृतो परिष्टात् ॥५८॥ (१) आगन्तुमिच्छतः । (२) उदयाचलशिखरसभाम् । (३) अन्धकाररिपुहन्तुः । (४)
चन्द्रस्य । (५) गगनचन्द्रोदयः । (६) ब्रह्मणा । (७) चन्द्रोपरि ।।५८।। हील० उदयाद्रिरूपां सभामागन्तुकामस्य तमःसंहारकृतश्चन्द्रस्योपरि धात्रा मुक्ताङ्कितश्चन्द्रोदयो धृतः ॥५८।। हीसुं० 'नभोगसारङदृशां रतीशराभस्यवश्यप्रियखेलिनीनाम् ।
वक्षःस्थहारश्रु( च्यु )तमुक्तिकाभिर्नभःस्थली 'तारकिता किमासीत् ॥५९।। (१) देववधूनाम् । (२) कामौत्सुक्येन स्वायत्तैः कान्तैः सह क्रीडनशीलानाम् । (३)
हृदयस्थलस्थायुकमुक्तिकहारत्रुटितमुक्ताफलैः । (४) तारायुक्ता ॥५९॥ हील० स्मरोत्कर्षेण वशीभूतैः प्रियैः सह रममाणानां देवाङ्गनानां हृदयात् त्रुटित्वा पतितैर्मुक्ताफलैर्नभस्ताराङ्कितं
जातमिव ।।५९॥ हीसुं० 'स्वर्दण्डदण्डं दधता तमिस्त्रवासो वसानेन सितेतरश्रि ।
"कपालमालेव धृता 'विहाय:कपालिना वक्षसि तारताराः ॥६०॥ (१) स्वर्गदण्डः । लोके 'पितृपथ' इति प्रसिद्धः । गगनान्तरामार्ग इव दृश्यमानः स एव यष्टिः । (२) अन्धकाररूपं वस्त्रम् । (३) परिधानेन । (४) श्यामम् । (५)
नरमस्तकखर्परपङिक्तः । (६) आकाशकपालिकेन ॥६०॥ हील० स्वर्गदण्डं दधता पुनः कृष्णं ध्वान्तवसनं दधानेनानन्तरुद्रेण तारामिषात्कपाल श्रेणिभृता ॥६०॥ हीसुं० तथा तवाप्यस्तु यथा त्रियामे ! "निष्कास्यतेऽहं गलहस्तयित्वा ।
"शपन्नितीवा क्षिपक्षलक्षाक्षतान हर्योग्य भिमन्त्र्य गच्छन् ॥६१॥ (१) तेनैव प्रकारेण-गलहस्तदानादिना । (२) निष्कासनं भवतु । (३) सम्बोधने रात्रे !! (४) लोकमध्यात् । कथम् ? ते गलहस्तं दत्वा । (५) शापं ददानः । (६) क्षिपति स्म ।
(७) नक्षत्रनिभात् । लाजानक्षत्रतण्डुलान् वा । (८) दिवसयोगी । (९) मन्त्रयित्वा ॥१॥ हील० तथा० । चतुर्यामाया अपि त्रियामे इति सम्बोधनं क्षयकृत्सूचकम् । यथाहं दिवसस्त्वया निष्कास्ये
तथा तवाप्यस्तु इति वासरयोगी तारादम्भादक्षतानक्षिपत् ॥६१॥ हीसुं० 'प्रस्थातुकामेन तमो जिघांसोर्जयाय पूर्वावनिभृद्गतेन ।
५अक्षेपि राज्ञा दशदिक्षु मन्ये शान्त्यै बलिस्ता रकतन्दुलाली ॥६२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org