SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २४८ 'श्री हीरसुन्दर' महाकाव्यम् हीसुं० कियद्विहायः कियती क्षितिर्वा प्रमातुकामस्तमसां समूहः । कुतूहलाक्रान्तमना इतीव द्यावापृथिव्योः प्रसरीसरीति ॥५३॥ (१) किं प्रमाणमस्येति । (२) गगनम् । (३) प्रमाणीकर्तुमनाः । ( ४) कौतुकव्याप्तचेताः । (५) नभोभूम्योः । (६) अतिशयेन प्रसरति स्म ॥५३॥ हील० तमः प्रसरति स्म । उत्प्रेक्ष्यते । कुतूहलेन द्यावापृथिव्यौ प्रमाणीकर्तुम् ।।५३|| हीसुं० तेपे तपो भूधरगह्वरान्तस्त्यक्ताशनाम्भ: प्रतिवासरं यत् । "व्योमावनी व्यापकसिद्धिरस्माद लम्भि भूच्छायभरैरिवैषा ॥५४॥ (१) तदा( ? ) गिरिगुहासु । (२) मुक्तानपानम् । (३) नित्यम् (४) द्यावाभूमी व्यापनरूपफलनिष्पत्तिः । (५) लब्धा (६) प्रत्यक्षा ॥५४॥ हील० गिरिगुहान्तर्यत्तपस्तप्तं तस्मात्तपस: फलं भूनभसोर्व्यापकसिद्धिराप्ता ॥५४|| हीसुं० अथो ददीप्यन्त नभःपदव्यां रेझगज्झगित्युस्रविमिश्रताराः । "स्वकान्तमायान्तम वेत्य रात्र्या पुष्पोपचारो "व्यरचीव मार्गे ॥५५॥ (१) तमःप्रसारानन्तरम् । (२) उद्दीपिताः । (३) झगज्झगिति कृद्भिः किरणैः करम्बिताः । "झगज्झगितिकान्तय" इति पाण्डवचरित्रे । (४) निजपतिम् । (५) ज्ञात्वा । (६) कुसुमप्रकरः । (७) रचितः ॥५५॥ हील० दीप्यमानकिरणकरम्बितास्ताराः स्फुरन्ति स्म । उत्प्रेक्ष्यते । स्वपतिं चन्द्रमागच्छन्तं ज्ञात्वा निशा कुसुमप्रकारो व्यरचि कृतः ।।५५॥ हीसुं० 'कुक्षिभरि क्षोणि नभ:पदव्योप्साहितं सन्तमसं जिघांसोः । ताराः स्वयं राज्ञ ६इहा यियासो: “पताकिनीव प्रसृता पुरस्तात् ॥५६॥ (१) भृतमध्यम् (२) भूगगनमार्गयोः । (३) मत्तरिपुम् । (४) हन्तुमिच्छोः । (५) चन्द्रस्य नृपस्य च । (६) इह गगनमण्डले । (७) आगन्तुमिच्छोः । (८) सेना । (९) अग्रे ॥५६॥ हील. ध्वान्तं हन्तुं स्वयमागन्तुकस्य चन्द्रस्य पुरस्तात्तारारूपा वाहिनी प्रसरति स्म । यत्र राज्ञोऽभिषेणनाभि लाषस्तत्र पुरस्त्वरितमनीकं प्रसरतीति रीतिः । किंभूतं ध्वान्तम् ?। भूगगनयो तमध्यं, पुनर्जगदाक्रमकारकं शत्रुरूपम् ॥५६॥ हीसुं० चिरं विनोदैर्दिननायकेनाभिकेन साकं "सुरवर्त्मलक्ष्म्या । 'नक्षत्रलक्षात्किमशेषवक्षः श्रमाम्बुभिर्बिन्दुकितं बभूव ॥५७॥ (१) विलासैः । ( २ ) रविणा । (३) स्वाभिलाषुकेन( ण)। पतिनीव ( ? ) ( ४ ) गगनश्रिया ।(५) उडुकपटात् । (६) जलकणकलितं जातम् । “स्वेदबिन्दुकितनासिकाशिखं' इति 1. इत्यन्धकारः । हील० । 2. ०मरुत्प० हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy