________________
सप्तमः सर्गः ॥
२४७ शिवं वदनिति नैषधे । (६) खादितुमिच्छुः । (७) दृष्ट्वा । (८) शंभुः (९) तमोमयाम्
॥४८॥ हील० सूर्यं क्वचिद्गतं दृष्ट्वावसरं प्राप्य प्राणहर ईशो जगत्खादितुमिच्छर्ध्वान्तरूपां मायां करोति ॥४८॥ हीसुं० पशोरिवोर्तीदिवगोचरस्य ध्वान्तस्य भोः पश्यति(त) मन्दिमानम् ।
निहन्यमानोऽपि मुहुः 'करेण 'चंडद्युता धावति रोदसोर्यत् ॥४९॥ (१) तिरश्च इव । (२) भूमिनभसीविषयश्चरणस्थानं यस्य । (३) मन्दिमानं मूढताम् । "मन्दिमानमगमच्छनैः शनै"-रिति वस्तुपालकीर्तिकौमुद्याम् । (४) किरणेन हस्तेन च । (५)
सूर्येण । (६) द्यावापृथिव्योः ॥४९॥ हील० उच्चनीचस्थाने चरणशीलस्य पशोरिव ध्वान्तस्य मूढतां भोः भूस्पृशः पश्यत । यत्सूर्येण हस्तेन रुचा
वा हन्यमानोऽपि दिवस्पृथिव्योर्धावति आयाति ॥४९।। हीसुं० अङ्काच्च्युताया रभसेन बाल्या लीलां 'सृजन्त्याः स्वपितुर्ग भस्तेः ।
जामेय॑मस्येव पयःप्रवाहै ते 'नभोभूमितले °तमोभिः ॥५०॥ (१) उत्सङ्गात् । (२) पतितायाः । (३) औत्सुक्येन । (४) क्रीडाम् । (५) कुर्वत्याः । (६) निजतातस्य । (७) रवेः । (८) यमुनायाः । (९) गगनभूमी । (१०) अन्धकारैः
॥५०॥ हील० तमोभिर्गगनभूतले व्याप्ते । उत्प्रेक्ष्यते । स्वपितुस्तरणेष्क्रो(: क्रो)डात्पतिताया यमुनायाः प्रवाहैाप्ते
॥५०॥ हीसुं० १रथाङनाम्नां 'दिवसावसाने ३वियोगभाजां सममङ्गनाभिः ।
स्फुरद्विषादानलधूमलेखा मन्ये 'तमिस्रा बहुलीबभूवुः ॥५१॥ (१) चक्रवाकानाम् । (२) सन्ध्यायाम् । (३) विरहिणाम् । (४) प्रकटीभवत्खेदरूपदुःखानलधूमावलीव । (५) अन्धकाराणि । तमिस्रशब्दः स्त्रीक्लीबलिङ्गे । (६) प्रचुरा जाता
॥५१॥ हील० अन्धकारा बहुला जाताः । तत्रैवमहं मन्ये-वियुक्तानां चक्रवाकानां दुःखाग्नेधूमरेखा ॥५१॥ हीसुं० गते गवां 'स्वामिनि 'नाभ्युदीते राजन्यथाराजकवद्विभाव्य ।
स्वैरप्रचारेण जगत्समग्रमुपाद्रवद्द स्युरिवान्धकारः ॥५२॥ (१) सूर्य नृपे च । (२) उद्गते न । (३) चन्द्रे भूपे च । (३) अथ पुनरर्थे । (५) निःस्वामिकवत् । “हाहा महाकष्टमराजक जग''दिति धनपालोक्तिः । (६) स्वेच्छया
संचरणेन । (७) उपद्रवति स्म । (८) वैरीव ॥५२॥ हील० भूस्वामिनि रवौ वा गते सति पुनर्नवीनपट्टधरे चन्द्रेवानुदिते सत्यराजकं दृष्ट्वा ध्वान्तारातिर्जगदुपद्रवति
स्म ॥५२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org