SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २४६ 'श्री हीरसुन्दर' महाकाव्यम् (४) शोभा । (५) विकचकोकनदमालाभिः । ( ६ ) कोशमध्ये मकरन्दपानार्थं निश्चलीभूतैः ॥४४॥ हील० शोभनशीलाभिरभ्र श्रेणिभिरन्धकारैः कृत्वा शोभा प्राप्ता । यथा रक्ताम्भोजपङ्क्तिभिर्भृङ्गैः शोभाप्सते ॥४४॥ हीसुं० तमोगणालिङ्गिनभोङ्गणश्रीः सन्ध्याभ्ररागच्छुरिता चकासे । “वृन्दारकैः “कुङ्कुमगन्धधूलीद्रवैरिवा सिच्यत शक्रमार्गः ॥४५॥ ( १ ) तमोनिवहाश्लिष्टगगनलक्ष्मीः । (२) सन्ध्याघनरक्तिम्ना व्याप्ता । “चन्दनच्छुरितं वपु”रिति पाण्डवचरित्रे । ( ३ ) शुशुभे । ( ४ ) देवैः । (५) घुसृणमृगनाभिपङ्कैः । ( ६ ) सिक्तः । (७) आकाशम् । “येनामुना बहुविगाढसुरेश्वराध्व " इति नैषधे ॥४५॥ हील० अन्धकारयुक्तं यत्सन्ध्यारागयुक्तं गगनं भाति । देवैः । उत्प्रेक्ष्यते । कुङ्कुमकस्तूरिकाभिर्गगनं सिच्यते ॥४५॥ हीसुं० 'सुधान्धसामध्वनि सान्ध्यरागोल्लासं विलुप्य प्रसृतं 'तमोभिः | "मलीमसाः 'स्वावसरं प्रपद्य 'परोदयं हन्त कुतः सहन्ते ॥ ४६ ॥ (१) देवानां मार्गे । नभसीत्यर्थः । ( २ ) सन्ध्यारक्तिमानम् । ( ३ ) अपाकृत्य । ( ४ ) अन्धकारैः । ( ५ ) मलीना: ( ६ ) स्वसमयम् । (७) प्राप्य । ( ८ ) परेषामुन्नतिम् ॥४६॥ हील० गगने सन्ध्यारागमतिक्रम्य ध्वान्तैः प्रसृतम् । नीचाः पापाः प्रस्तावं प्राप्यान्येषामुदयं न सहन्ते ॥४६॥ हीसुं० 'पुरारिकंसारिपदप्रसते रजय्यवीर्यं शशिनं निशम्य । ध्वान्तोपधेस्तन्निजिघृक्षयेव 'तमोभिर थ्रे 'बहुली - बभूवे ॥४७॥ - 1 इति सन्ध्यारागः ॥ ( १ ) ईश्वरस्य विष्णुपदस्य च प्रसादात् । ( २ ) जेतुमशक्यपराक्रमम् । (३) श्रुत्वा । (४) तस्य शशिनः निग्रहं कर्तुमिच्छया । (५) अजय्यवीर्यत्वाद्रूपबाहुल्यं राहुभिः । ( ६ ) गगने । (७) बहुभिर्जातम् ॥४७॥ हील० ईशकृष्णयोः पदमनन्तं तत्सेवया बलवन्तं चन्द्रं श्रुत्वा ध्वान्तमिषान्निग्रहकर्तुं ध्वान्तैर्बहुलं जातम् 11*8011 हीसुं० ' क्वचिज्जगत्साक्षिणमेक्ष्य यातं जगज्जगज्जीवपिबो जिघत्सुः । स्वीयं 'विभाव्यावसरं 'स्मरारिर्भूच्छायकायां सृजतीव मायाम् ॥४८॥ Jain Education International (१) कुत्रापि । ( २ ) जगतः साक्षिभूतम् । सर्वकर्म्मणामित्यर्थः । ( ३ ) दृष्ट्वा । ( ४ ) विश्वम् । (५) विश्वप्राणहरः । “जीवेऽत्सु(सु) जीवितप्राणा" इति हैम्याम् । “क्षये जगज्जीवपिबं 1. इति सन्ध्यारागमध्यगततमिस्रावर्णनम् •हील० । 2. ०भिर्बभू० हीमु० । For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy