SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः ॥ हीसुं० 'स्वर्णेवतांहिप्रतिकर्मसज्जप्रसाधिका 'पाणिपयोरुहेभ्यः । निपातुकालक्तकपङ्कपङ्क्तिः सन्ध्याभ्र(भ्रि)का व्योम्नि 'बभूवुषीव ॥४०॥ (१) स्वर्गयुवतीगणस्य मण्डनकरणप्रवणमण्डनकारिका । (२) करकमलेभ्यः । (३) पतनशीलयावकज्जलमालाभिः । (४) सान्ध्यरागपटली । (५) जाता ॥४०॥ हील० स्वर्गाङ्गनाप्रतिकर्मकारिकाहस्तेभ्यः पतिता लक्तकश्रेणी ॥४०॥ हीसुं० अनीदृशीं 'व्योममणेनिश्रीचूडामणे: प्रेक्ष्य दशां "स्वभर्तुः । दुःखेन ताम्बूलम हायि वक्त्रात्सन्धाभ्रदम्भादिव दिग्वधूभिः ॥४१॥ (१) निकृष्टामस्तलक्षणाम् । (२) सूर्यस्य । (३) दिवसलक्ष्म्याः शिखामणिसदृशस्य । (४) निजनाथस्य । “दिशो हरिद्भिर्हरितामिवेश्वर" इति रघुवंशे । (५) त्यक्तम् । (६) दिगङ्गनाभिः ॥४१॥ हील० स्वभर्तुः सूर्यस्यासम्यगवस्थां दृष्ट्वा दिगङ्गनाभिस्ताम्बूलं त्यक्तम् ॥४१॥ हीसुं० पत्यौगवां क्वापि गतेऽस्य बन्धून्पद्मारथाङ्गा रिपुवत्प्र दोषः । 'क्लिश्नाति 'कोपाकिमतो "दिगीशैः सन्ध्याभ्रदम्भादरुणीबभूवे ॥४२॥ इति सन्ध्यारागः ॥ (१) सूर्ये भूपे च । (२) अस्य-गोपतेः । (३) चक्रवाकान् । (४) शत्रुरिव । (५) यामिनीमुखम् । (६) पीडयन्ति । (७) दिक्पतिभिः । (८) रक्तीभूतम् । (९) क्रोधात् ॥४२॥ हील० भूस्वामिनि किरणस्वामिनि वा गते तरणिभ्रातृन् कमलान् चक्रवाकान् सन्ध्या सुखरहितान् करोति । अतो दिग्नायकैः कोपाद्रक्तीभूतम् ॥४२॥ हीसुं० १अभ्रे 'मनाक्सन्तमसैः प्रदोष: 'रागान्तरेऽथ प्रकटीबभूवे । "प्रवालपुञ्जे स्मयमानकृष्णवल्लीप्ररोहैरिव वाद्धिमध्ये ॥४३॥ (१) आकाशे । (२) किमपि । (३) अन्धकारैः । (४) सन्ध्यारागमध्ये । (५) विदुमवृन्दे । (६) विकसत्कृष्णलताङ्करैः ॥४३॥ हील० सन्ध्यारागमध्येऽन्धकारैः प्रकटीभूतम् । यथा समुद्रमध्ये प्रवालपुञ्जे कृष्णवल्लीप्ररोहैरङ्करैः प्रकटीभूयते ॥४३॥ हीसुं० विभ्राजिसन्ध्याभ्रपरम्पराभिरलम्भि भूच्छायभरै विभूतिः । "स्मेरारुणाम्भोरुहमण्डलीभिर्भृङ्गैरिवान्तर्मधुपानलीनैः ॥४४॥ (१) शोभनशीलसान्ध्यरागाभ्रिकाश्रेणीभिः । (२) प्राप्ता । (३) अन्धकारनिकरैः । Jain Education International For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy