________________
२४४
'श्री हीरसुन्दर' महाकाव्यम् हील. विरहव्याकुलीकृतचक्रौघः सन्ध्यारागो जातः । उत्प्रेक्ष्यते । स्मरेण रक्ता नवपटकुटी दत्ता ॥३५।। हीसुं० 'नभोङ्गणे सान्द्रितसान्ध्यरागैर्बभेऽम्बुधिं 'शीलति 'हेलिबिम्बे ।
भर्तुर्विधोरागमने 'प्रणीतै रात्रिस्त्रिया कुङ्कमहस्तकैः किम् ॥३६॥ (१) गगनमण्डले । (२) निबिडीभूतसन्ध्यासम्बन्धिरागै रक्तिमभिः । (३) सूर्यमण्डले । (४) समुद्रम् । (५) श्रयति । (६) कान्तस्य । (७) चन्द्रस्य । (८) कृतैः (९) घुसृत
इव हस्तबिम्बैः ॥३६॥ हील० रविमण्डलेऽर्णवं गते सायंतनरागैः शोभितम् । उत्प्रेक्ष्यते । स्वस्वामिन आगमे रात्र्या कुङ्कमहस्तबिम्बैः
॥३६॥ हीसुं० 'मज्जत्ककुप्कुञ्जरबिन्दुवृन्दारुणीभवव्योमसरित्तरङ्गैः ।
अभ्रेऽरुणाम्भोजरजोविमिर्झरदभ्रसन्ध्याभ्रनिभात्प्रसस्त्रे ॥३७॥ (१) जलक्रीडां कुर्वतां दिग्गजानां बिन्दुवृन्दैर्मदकणनिकरैः । पञ्चम्यां हि दशायां करीन्द्राणां कपोलेषु रक्ता बिन्दवो निर्गच्छन्तीति शास्त्रोक्तेस्तथा- "भूर्जत्वचः कुञ्जरबिन्दुशोणा" इति कुमारसम्भवे । तै रक्तीभवद्गगनगङ्गातरङ्गैः । (२) व्योम्नि । (३) कोकनदपरागैः करम्बितैः ।
(४) प्रसृतम् ॥३७॥ हील० मग्नदिग्गजमदै रक्तैः स्वर्गनदीतरङ्गैः सन्ध्यारागमिषाद्गगने प्रसृतम् ॥३७॥ हीसुं० आगामुकं 'कामुकम क्षिलक्ष्यं प्रणीय पराजानमनन्तलक्ष्या ।
अङ्गेऽङ्गरागो घुसृणैः प्रणीतः १°सान्ध्योल्लसल्लोहिता( तिमा)किमेषः ॥३८॥ (१) आगमनशीलम् । (२) कामयितारमभिलाषिणम् । (३) दृग्गोचरम् । (४) कृत्वा । (५) चन्द्रम् नृपं च । (६) गगनश्रिया । (७) वपुषि । (८) विलेपनम् । (९) कृतः ।
(१०) सन्ध्याभवस्फुरदक्तिमा । हील० आगा०। गगनलक्ष्म्या आगन्तुकं पति चन्द्रं दृष्ट्वा सन्ध्यारागमिषादङ्गे रक्तचन्द्रनैविलेपनं कृमिव
॥३८॥ हीसुं० 'निशानने श्रीसुतकान्तमत्तैरत्युत्सवायोत्सुकभावभाग्भिः ।
*दिग्वारसारङ्गविलोचनाभिः सन्ध्यारुणश्री रुदगारि रागः ॥३९॥ (१) सायम् । (२) स्मरमदोद्धतैः । (३) सुरतक्रीडोत्सुकाशयैः । ( ४ ) दिगङ्गनाभिः । (५)
उद्गीर्णः ॥३९॥ हील० सन्ध्यासमये कामेन मत्तैदिग्नायकैः सार्थं रतेः सुखस्योत्सवायोत्सुकाभिर्दिगङ्गनाभिः सन्ध्यारुणत्वमेव
राग उद्गीर्णः ॥३९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org