________________
१२
'श्री हीरसुन्दर' महाकाव्यम् हीसुं० 'तत्रापि च स्फूर्तिमियर्त्यऽपूर्वां श्रीस्थंभने स्थम्भनपार्श्वदेवः ।
व्यध्वंसि धन्वन्तरिणेव येन "कुष्टोपतापोऽभयदेवसूरेः ॥४२॥ (१) अपि च पुनः तत्र गूर्जरमण्डले । (२) निवारितः (३) धन्वन्तरिनामा वैद्यः । (४)
कुष्टरोगः ॥४२॥ हील० तत्रा०। तत्र गूर्जरमण्डले श्रीस्थम्भने स्थंभनपार्श्वः असाधारणीं स्फूर्तिं प्राप्नोतीति । येन पार्श्वनाथेन
नवाङ्गीवृत्तिविधातुरभयदेवसूरेः कुष्टोपद्रवः निरस्तः । यथा धन्वन्तरिवैयेन कुष्टादिरोगो विध्वंस्यते ॥४४॥ हीसुं० 'स्वक्षारतां 'सूनुकलङ्कितां च 'माष्टुं क्रमाम्भोजरजोमृतेन । "वेलाछलाद्यं जलधिद्विवेल मुत्कण्ठितो नन्तुमिवाभ्युपैति ॥४३॥
इति स्थम्भनपार्श्वः । (१) आत्मनो लवणत्वम् । (२) चन्द्रस्य कलङ्कमत्वम् । (३) स्फेटयितुम् । (४)
जलवृद्धिव्याजात् । (५) द्विारम् । (६) उत्सुकितः । (७) समायाति । ४३॥ हील. स्वक्षार०। समुद्रः उत्कण्ठितः सन् वारिवृद्धिव्याजाद्विवारं यं स्थंभनपार्श्वनाथं नन्तुं आगच्छति ।
किंकर्तुम् ? । क्रमकमलरजोऽमृतेन कृत्वा स्वलवणभावं अपि च चन्द्रकलङ्क अपनेतुमिव ॥४५॥ हीसुं० तीर्थानि 'तीर्थाधिपपावितानि 'परस्सहस्राण्यपराण्यपीह ।
स्फूर्ति परां बिभ्रति पूर्वदेशे जिनेशकल्याणकशालिनीव ॥४४॥ (१) जिनेन्दैः पवित्रीकृतानि । (२) सहस्त्रात्पराणि । (३) तीर्थकृतां च्यवन-जन्म-दीक्षा
केवल-सिद्धिगमनस्थानकरूपैः कल्याणकैः शालते इत्येवं शीले ॥४४॥ हील० तीर्था०। इहं देशे अपि पुनः अन्यानि अपराणि सहस्रात्पराणि अनेक सहस्रसङ्घयानि तीर्थानि
पुण्यस्थानानि महिमानं कलयन्ति । किंभूतानि ? । जिनप्रतिमाभिः पावितानि । पवित्रितानीत्यर्थः । कस्मिन्निव । पूर्वदेश इव । यथा पूर्वदेशे सहस्रसङ्ख्याकानि तीर्थानि स्फुरन्ति । किंभूते पूर्वदेशे ?।
जिनेशानां कल्याणकैः शालते शोभते इत्येवंशीलस्तस्मिन् ॥४६।। हीसुं० नवोदयं हीरकुमारचन्द्रं निरीक्षितुं कौतुकिनीसमेता ।
स्वयं 'स्वयंभूतनया किमेषा सरस्वती यत्र विभाति सिन्धुः ॥४५॥
(१) उदयो जन्म-उद्गमनं च । (२) विधातुः पुत्री ॥४५॥ हील० नवोदयं०। यत्र देशे सरस्वती नदी विभाति । किमुत्प्रेक्ष्यते । नवो नूतनो, भाविनि भूतोपचारादुदयो
यस्य तं तथोक्तं हीरनामा कुमारेषु कुमाराणां मध्ये दीप्यमानत्वाच्चन्द्रम् । तं निरीक्षितुम् । कौतुकं विद्यते यस्या सा कौतुकिनी कुतूहलाकलिता समेता । एषा किं स्वयंभुवो ब्रह्मणस्तनया पुत्री सरस्वती समागतेव । अन्यापि पुरन्ध्री कुतूहलानवोदयं चन्द्रं प्रेक्षितुं समेति ॥४७॥
1. इति स्थम्भनपार्श्वदेवः हील० । 2. इति पुण्यस्थानानि हील० । 3. अथ क्रीडास्थानानि । नवोदयं० हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org