________________
षष्ठः सर्गः ॥
हीसुं० स्वयमेष शिवं गमी 'परानपि सम्प्रापयितुं प्रभुः प्रभुः । इति वक्तुमिवेश्वरा' न्दिशां यशसा १० व्यानशिरेऽखिला दिशः ॥ १२६ ॥
(१) आत्मना । (२) सूरिः । (३) मोक्षम् । ( ४ ) गमिष्यति । (५) भवान्तरितः तथा परानपि । (६) मोक्षं प्रापयितुम । (७) समर्थोऽस्ति । (८) अयम् । (९) दिक्पालान् । (१०) दशापि दिशो व्याप्ता ॥ १२६ ॥
हील० स्वयं मोक्षगामी परं परानपि प्रापयितुं क्षमः । इति दिक्पालान्वक्तुं कीर्त्या दिशो व्याप्ताः ॥ १२६ ॥ हीसुं० 'कजपाणितमोद्विषज्जगन्नयनस्यास्य महोभरैर्भरात् ।
किमु चण्डरुचेर' सूयया "भ्रियते भूमिनभस्तलद्वयी ॥१२७॥
( १ ) कमलतुल्यः पाणिर्यस्य । पक्षे पद्मं पाणौ यस्य । अज्ञानस्यान्धकारस्य च वैरी । विश्वस्य धर्म्ममार्गदर्शकत्वाच्चक्षुरिव । पक्षे जगच्चक्षुरितिनामा सूरिः सूर्यश्चः । (२) प्रतापप्रकरैः । (३) सूर्यस्य प्रतापैः सार्द्धम् । (४) स्पर्द्धया । (५) भृता । ( ६ ) पृथिवीगगनयोर्यामली
॥१२७॥
हील०
कजवद्रक्तकरस्य कमलाङ्कितकरस्याज्ञानद्विषतो धर्मोपदेशकस्य । रविपक्षे-कजे करा यस्य पुनरन्धकारवैरी च । पुनर्जगच्चक्षुस्तादृशस्य रवेरीर्ष्ययास्य प्रतापैर्द्यावाभूयोर्व्याप्तम् ॥१२७॥ हीसुं० स पतिव्रतयेव वल्लभो गणलक्ष्म्या समुपास्यत प्रभुः ।
अनाम सा पुनर्मुदं नगरी 'नीतिमतेव ' भूभृता ॥ १२८ ॥
( १ ) सत्येव । ( २ ) भर्त्ता । ( ३ ) हीरविजयसूरिणा । ( ४ ) गणश्रीः: । ( ५ ) प्रापिता । ( ६ ) हर्षम् । (७) न्यायवता । (८) नृपेण ॥ १२८॥
हील० सूरिणा गणलक्ष्मीर्मुदं नीता ॥ १२८॥
हीसुं० अभजन्त 'यतिव्रजा विभुं विहगाः स्मेरमिवावनीरुहम् ।
पृणाति स्म स तान्पुनर्महोदयसस्यं प्रदिशंस्तानिव ॥ १२९ ॥
२२१
( १ ) साधवः । ( २ ) पक्षिणः । (३) स्मिततरुम् । (४) प्रीणयति स्म । (५) साधून् । ( ६ ) मोक्षफलम् । (७) दत्त्वा । ( ८ ) तरुः पक्षिणां फलानि दत्त्वा प्रीणाति ॥ १२९ ॥ हील० यतयस्तं अभजन्त । स यतीन्प्रीणाति स्म । यथा स तरुः फलं विश्राणयन्विहगान् तान् प्रीणाति
।। १२९ ।।
हीसुं० 'कुनयान्नयता विनम्रतां जयिनेव प्रतिगर्जतोऽमुना ।
दधताधरितः क्षमां ह्रिया किमु 'पातालमहीश्वरोऽविशत् ॥१३०॥
1. पाठान्तरे तरुणीवत्तरुणेन सरिणा हील० । 2. इति सूरेस्तपागच्छसाम्राज्यम् हील० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org