________________
'श्री हीरसुन्दर' महाकाव्यम्
(१) देवीव्रजै: । ( २ ) आगत्य । ( ३ ) स्त्रीसमूहैः । ( ४ ) पाणिग्रहणस्य मण्डपः । ( ५ ) लाजव्रजै: । (६) वर्धाप्यते [ स्म ] । ( ७ ) उपाश्रयः ॥१२१॥ हील० गणिनन्दिमहे युवतीव्यूहैर्विवाहमण्डपवदालयो वर्द्धापितः ॥१२१॥
२२०
हीसुं० 'जिनवद्गणधारिणः पदं समनुज्ञाप्य स सूरिचक्रिणः । गुरुरस्य सहस्त्रदीधितिप्रमितावर्त्तनवन्दनान्यदात् ॥१२२॥
( १ ) तीर्थकर इव । ( २ ) सम्यक् अनुज्ञाप्य । ( ३ ) हीरविजयसूरेः । ( ४ ) विजयदानसूरिः । (५) द्वादशावर्त्तवन्दनकानि । (६) ददौ ॥१२२॥
यथा जिनः सुधर्मस्वामिनो गणधारिणः समनुज्ञापयति, तद्वद्दत्वा सूरीन्द्रो द्वादशावर्त्तवन्दानानि ददाति स्म ॥१२२॥
हील०
हीसं० 'वशिनोऽस्य ततो वशंवदां गणभृद्भूमिमणिर्गणश्रियम् ।
स्वतस्य पितेव सम्पदं 'प्रणयेन 'प्रणिनाय नीतिमान् ॥ १२३॥
(१) जितेन्द्रियस्य ( २ ) आयत्ताम् । ( ३ ) विजयदानसूरीन्द्रः । (४) पिता निजपुत्रस्य । (५) गृहसम्पत्तिम् । (६) स्नेहेन । (७) चकार ॥ १२३॥
हील० वशिनो० । श्री सूरीशस्तपागच्छलक्ष्मीं अस्यायत्तां प्रणिनाय - चकार । यथा गुरुः पिता च स्वसुतस्य सम्पदं ददाति, तद्वत् ॥ १२३॥
हीसुं० मुदमा दधिरे मुमुक्षवस्त 'म' वाप्याभिनवोदयं प्रभुम् ।
नृते नरकद्विषं पुनर्गणलक्ष्म्या 'पुरुषोत्तमं पतिम् ॥ १२४ ॥
( १ ) हर्षम् । ( २ ) प्रापुः । ( ३ ) तपगच्छसाधवः । ( ४ ) हीरविजयसूरिम् । (५) प्राप्य । (६) नर्तितम् । (७ नरकस्य कुगतेर्दैत्यस्य द्वेषिणम् । (८) पुरुषेषु श्रेष्ठं नारायणं च ॥ १२४॥ हील० मुद० । तं प्राप्य यतयो मुदं प्राप्ताः । पुनस्तपागच्छलक्ष्म्या नरकस्य दैत्यस्य दुर्गतेश्च शत्रुं कृष्णं उत्तमं वा प्रभुं प्राप्य नर्त्तितम् ॥ १२४॥
हीसुं० गणपूर्वगिरौ 'महोदयि श्रमणव्योममणीनिरीक्षणात् ।
'कुनयैरिह 'कौशिकायितं "भविकैः 'पङ्कजकाननायितम् ॥१२५॥
(१) गच्छरूपोदयाचले । (२) हीरविजयसूरिसूर्यालोकनात् । ( ३ ) परपाक्षिकैः । ( ४ ) मूकवदाचरितम् । (५) पुनर्भव्यैः । (६) कमलवनवदाचरितम् । विकसितमित्यर्थः ॥ १२५ ॥ हील० गच्छोदयाद्रौ श्रीसूरावुदीते कुमतिभिः घूकवत्प्रणष्टम् । भव्यैः कमलवनवद्विकसितम् ॥ * १२५।।
1. इति समरथभणसालीकृतमहोत्सवपूर्वकं हीरविजयसूरे: सूरिपदनन्दिवन्दनकप्रदानवर्णनम् हील० । 2. दयश्रमण० हीमु० | 3. मणीसमीक्षणात् हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org